पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स० १४] विक्रमाङ्कदेवचरितम् |

सिक्तमम्बुदजलैनभस्तलं जातशातूलामेव ध्यराजत ॥ २६ ॥
खेदकारण मवान्तरापगासंगमं गतमवेत्य वारिधेः ।
संमदादिव महातरंगिणीचकवालमगमत्प्रसन्नताम् ॥ २७ ॥
उत्कटेन तडितामियोष्मणा संनिरुष्य जलदेन तापितः ।
अंशुभिः खरतरैरदर्शयतापमप्यधिकमुष्णदीधितिः ॥ २८ ॥
पक्कशालिवनमध्यतः करैः पाटलैः कलमगोपकाजनः ।
१२३
M
नूतनोद्रत सरोजसंगतानास्त वारयितुमक्षमः शुकान् ॥ २९ ॥
निर्गतैरिव तडित्प्रदीपतः सान्द्रकज्जलरजोभिराचितम् ।
वृत्तकपरनिर्भ नभस्तलं नीलिमानमतिमात्रमाययौ ॥ ३० ॥
सार्धमम्बुभिरिवेत्य वारिधेमौक्तिकानि गलितानि तोयदात् ।
व्योममण्डलमुडूनि भेजिरे कैरवाधिकरुचीनि रात्रिषु ॥ ३१ ॥
रोलको व्योमदर्पणतले शरद्वधूः |
चन्द्रमाननमिवावलोकयचरक्षणोन्मि/षित कैरवेक्षणा ॥ ३२ ॥
आतपः क्लममदत्त वासरे चन्द्रिका जनमनन्दयन्निशि |
चक्रतुर्निजगुणप्रकाशनं स्पर्धयेष तपनक्षपाकरी ॥ ३३ ॥
सान्द्र चन्दनविलेपनादपि कान्तिहारिषु गृहाङ्गणस्थितः ।
न प्रदोषसमये मरीचिषु प्राप तृप्तिममृतयुतेर्जनः ॥ ३४ ॥
पुण्ड्रकेक्षुलतिकाञ्चकासिरे क्षेत्रभूमिषु कृतेक्षणोत्सवाः ।
लम्बिता इव विधोः सुधाभरादेशवः स्फटिकदण्डपाण्डुराः ॥ ३५ ॥
शक्र कार्मुकावेलोकनाद्भुषं क्रन्दित भयवशात्कलापिभिः ।
यत्र यद्रतवति क्षणेन ते मौनमानतमुखाः सिषेधिरे ॥ ३६ ॥
क्षुण्णमौक्तिक परागपाण्डुरः शोभतेस्म दिषि चन्द्रिकाभरः ।

XIV. 27. समदादिव Ms. XIV. 29. कलमगरिका ? Ms. - XIV. 30. प्रदीपित: Ms.-XIV. 31. ०रिवेत्यं चारि० : ळांगतानि Ms.