पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° १४] विक्रमाङ्कदेवचरितम् ।

प्रेषितस्य घनवासमण्डले वर्तते नयावेपर्ययो महान् ॥ ७ ॥
न्यायमार्गमपहाय कुर्वता तेन कोशमविशङ्कचेतसा ।
सर्वतः सकललोकपीडनादुद्विहारहरिणाः कृता भुवः ॥ ५ ॥
भूरिसंगर परिश्रमार्जितां स्वामिनः प्रियतमां वहन्ति ये ।
दन्तपृष्ठवलयीकृतैः करौर्वेष्टरप्रणयिनीमिव श्रियम् ॥ ६ ॥
चुम्बिताने मदानेद्रया मुहुर्ये नयन्ति नयनान्यमुद्रताम् ।
लोलकर्णपुट वास शीतलैरुच्छलइहलदानशीकरैः ॥ ७ ॥
कान्तदन्तविसकाण्ड निर्गमे दानपडपटले वहन्ति ये ।
बिम्बित दिवसनाथमण्डलं पुण्डरीकामेव मन्दिरं श्रियः ॥ ८ ॥
उल्लिखन्ति दशनैः शिलातलान्युन्मदाः क्षितिषरस्थलीषु ये ।
तेष तैक्ष्ण्यमिव कर्तुमुद्यताः प्रत्यनीकमटभेदनोद्भटम् ॥ ९ ॥
वत्सलेन भवता समर्पितास्तस्य ते कति न गन्धसिन्धुराः ।
तहलात्किमपि चिन्तयत्यसौ यत्कथापि वितनोति पातकम् ॥ १० ॥
सर्वमाटविकचक्र मक्रमव्यापृतस्तलगतं चकार सः ।
१२१
शार्बरेष्विव तमस्सु राक्षसाः पापकारिषु मिलन्ति पापिनः ॥ १९ ॥
द्राविडं स नृपति सहायता प्रापयत्यविरतैरुपायनैः ।
कर्तुमिच्छति न कैरुपक्रमैर्भेदजर्जरमिदं भवलम् ॥ १२ ॥
भूरिभिः किमथवा कथास्तवमेतदवधार्यतां नृप ।
कैश्चिदेव दिवसैः स संमुखः कृष्णवेणिनिकटे भविष्यति ॥ १३ ॥
इत्युदीर्यं विरते विशारदे तत्र शारदमृगाङ्कनिर्मलः |
नाभ्यवत्त सहसा किमप्यसौ न त्वयं दवति धीरचेतसः ॥ १४ ॥
कि श्रिया चपलया प्रतार्यसे वत्स मामति विपर्ययोस्तु ते ।

XIV. 5. हरिण : Ms. XIV. 8. दांतविश : मंडिरं Ms. - XIV. 10. After this verse the Ms. inserts भत्र क्रियाकुलकं,