पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स°३] विक्रमादेवचरितम् ११३

उपसिषुः श्वासममीरणा इव प्रबुद्धदावानलबन्धवोनिलाः ॥ ११ ॥
गतायुषि ग्रीष्ममहोष्मडम्बरे दिनैपि चञ्चत्पुलकै विलासिभिः ।
कुचस्थलीचन्दनले पपडिलप्रियाङ्क पालीसुखमन्वभूयत ॥ १२ ॥
परस्पर श्वाससमीरघट्टनत्रुटत्कपोलस्थलघर्मबिन्दुभिः ।।
अपि प्रदोषावसरे विलासिभिः करम्बितान्योन्यभुजैरसुप्यत ॥ १३ ॥
अपङ्कजं त्रस्तर मस्तचन्दनं विलाससंमर्दममन्दमाश्रिताः ।
शनैर्निदाघस्य घनामदर्शयन्प्रतापहानि हरिणायतेक्षणाः ॥ १४ ॥
अपश्यस्मिन्समये महीपतिः पयोदखण्ड मिलितार्कमण्डलम् |
सकुण्डलं वारिमुचामनेहसः कुतोपि मूर्धानमिवार्धनिर्गतम् ॥ १५ ॥
निदाघानैः शेषिततोयसंपदः समुद्धृतं वारिदिदृक्षया सुरैः ।
नमःस्रषन्त्या इष पङ्कमङ्कतः क्षमापतिर्बालपयोदमैक्षत ॥ १६ ॥
शनैरवाप्तोपचयं पयोमुचं विलोक्य कौतूहललोललोचनाम् ।
अथाङ्कपर्यङ्ककृतास्पद प्रियामवोचत क्ष्मातलमीनलाञ्छनः ॥ १७ ॥
नमस्तलारण्यतमालमालिका महीभृतां मूर्धसु मूर्धजावलिः |
सांड दीपाञ्जनपुन संनिभा विभाव्यतां सुख नवाभ्रमण्डली ॥ १८ ॥
घनोपरोधात्तरलाक्षि लक्ष्यते मलीमसं मण्डलमुण्णदोधितेः ।
क्षणप्रभादीपसमुत्थकज्जलग्रहोत्कषर्षार्पित कर्परोपपम् ॥ १९ ॥
मृगाक्षि पश्य प्रसभं नमश्चरीविलासकृष्णागुरुधूपमण्डलैः ।
करम्बितः षट्टुदमेचकैरिव प्रयाति सद्यः प्रचुरत्वमम्बुदः ॥ २० ॥
अनेन नूनं जलधेः समुद्भुतं विचित्ररत्नाङ्कुरदन्तुरं पयः !
अनेकवर्णाञ्चि तमन्यथा कथं पयोमुचा निर्मितमिन्द्रकी मुकम् ॥ २१॥
ध्रुवं दिवि ग्रासगृहीतपन्न गस्फुरत्फणारत्नमयूखकन्दलैः ।
घनोन्मुखानां शिखिनां मुखोद्गतरकारि शातक्रतवं शरासनम् ॥२२॥
नितम्बबिम्बेषु वसुन्धरामृतां घनाः स्फुरनीलदुकूल विभ्रमाः ।