पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चिक्रमाङ्कदेवचरितम् । [स]° १३

प्रतापमारोप्य परां समुन्नतिं यशः प्रदश्यैव च दावभस्मभिः |
जगन्निदावः कृतकृत्यतामिव स्वपोरुषाविष्करणान्यवर्तत ॥ १ ॥
विधाय तैक्ष्ण्यं गणितान्यहानि स प्रतापहानेः प्रणयित्वमाययौ ।
परोपता पैकपरायणाश्चिरं क वा भवन्त्यभ्युदयस्य भूमयः ॥ २ ॥
दवानलफ्रुष्ठत्रनान्तभस्मभिः क्षमाधराः पाण्डुरुचश्चकासिरे ।
गता इषाङ्के स्थितबालवृक्षकक्षयोत्थवैराग्यवशात्तपस्त्रिताम् ॥ ३ ॥
निदाघसंपादितकार्यसंपदा तरंगिणीनां गलिता नितम्बतः |
कलप्रलापाः कलहंसपङ्कयश्चकासिरे विभ्रममेखला इव ॥ ४ ॥
रवेः समस्तक्षितिमव्यगं रसं निषीय पीनत्वमतोष बिभ्रतः ।
भरेण पाजिष्विव मन्दगामिषु क्रमेण देध्ये दिवंसाः प्रपोदरे ॥ ५ ॥
न गन्तुमन्याः पदमप्यपारयन्त्रितान्तदीर्घं तनिमानमागताः ।
हिमाद्रिजाताभिरलम्भि केवलं नदीभिरब्धेः परिरम्भणोत्सवः ॥ ६ ॥
तुषारशैलद्रवनिर्झरोदकं समाहरनुत्तरभूमिनिम्नगाः |
हिमोपचारार्थमनेकवाहिनीवियोगतप्तस्य सरित्यतेरिव ॥ ७ ॥
2:
प्रबुद्धकार्याः परितापसंकुचत्सपङ्कपेरुहिणदिलाङ्कित्ताः ।
दशामल ब्वाब्धिसमागमाश्चिरं वियोगयोग्यामभजन्त निम्नगाः ॥ ८ ॥
दृशं प्रपापालिकया प्रकाशिते न्यवेशयत्कुम्भधिया कुचद्वये |
विवेद पान्थः कलशात्परिच्युतां न बारिधारां मुखसङ्गिनीमपि ॥ ९ ॥
पपुः प्रपापालिकया समर्पितं चिरेण पान्याः कथमप्यनादरात् ।
तदीय बिम्बाधरपानलम्पटा: सपाटलामोदमपि प्रपाजलम् ॥ १० ॥
निरन्तराघट्टितपाटलाधराः क्रमान्निदाघस्य घनोष्मसङ्गिनः |

११२ XIII. 2. भवन्त्युदयस्य Ms. --XIII. 3. क्षमाषरा पा० Ms. - तपस्विनी Als.-~-XIII 8 दश Ms.