पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° १२] विक्रमाङ्कदेवचरितम् |

असंनिधानात्कुसुमाकरस्य पुष्पायुधः क्षीणनिषङ्गभारः ।
वामां सस्मितमलिकेषु धम्मिल्लबन्धेषु वृर्ति बबन्ध || ७३ ॥
नेत्राणि धात्रीतिलकाङ्गनानां तरंगलेखाहृतकज्जलानि ।
शाणोपलान्दोलन निष्कलङ्कका मास्त्र मैत्री कलयांबभूवुः ॥ ७४ ॥
लीलावगाहच्युतकुमेषु लक्ष्यस्तदङ्गेषु नखाङ्कमार्गः |
शृङ्गाररत्नाकरतीरभाजां मुद्रां दधे विद्रुमपल्लवानाम् ॥ ७५ ॥
व्यधिन तदनु देव्याः पत्तषहीं कपोले
विपुलपुलकलेखादन्तुरः कुम्तलेन्दुः ।
प्रतियुवतिभिरधे ताडितः पाण्डुगल-
स्थलविलुठितवाष्पव्यक्तिलक्ष्यैः कटाक्षैः ॥ ७६ ॥
रचयाते कचलीलाबन्धमुत्कंधरायाः
स्वयमवनिमृगाङ्के कौसुकेन प्रियायाः ।
स्थितमुपचित चिन्तातापताम्यत्कपोल-
ग्लपितकर सरोजस्त्रस्तराभिः पराभिः ॥ ७७ ॥
मधुसमय विरामक्षामवीर्यस्थ शौयं
बहुभिरिति चरित्रैः सूत्रयम्पुष्पकेतोः ।
शिशिरमिव यमद्भिः प्रेयसीगात्रसंगे-
रपि जरठमजैषीद्रीष्म नरेन्द्रः ॥ ७८ ॥
॥ इति श्रीविक्रमाङ्कदेवचरिते महाकाव्ये त्रिभुवनमलदे-
वविद्यापतिकाश्मीरकमट्टश्रीबिल्हणकृतौ द्वादशः सर्गः ॥

XII. 73. पुष्य/युन क्षो° Ms.-XII. 76 °दन्तुरकु● Ms. - XII. End द्वादशमः M..