पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स०° १२] विक्रमाङ्कन्देवचरितम् | १०९

समन्ततः स्फाटिककुट्टिमेन हिमं शिलीभूतमिषोद्वहन्ति ॥ ५० ॥
परिस्फुरत्केतकपत्तभङ्गया घण्टासह स्खैरिव दन्तुराणि ।
अदृश्यसूर्याणि घनोपमानां नीरन्ध्रबन्धात्कदलो दलानाम् ॥ ५१ ॥
गवाक्षजालान्तरनिर्यदच्छनीरन्ध्रधारानिकरच्छलेन ।
.निदाघसंरोधविसूत्रणाय व्यापारयन्तीय पृषत्कपङ्किम् ॥ ५२ ॥
अत्यन्तशैत्यादिव संकुचद्भिरस्पृष्टपूर्वाणि करैः खरांशोः ।
दुर्गाणि घर्मेपि हिमर्तुजीवरक्षाक्षमाणीव कृतानि धात्रा ॥ ५३ ॥
धारागृहाणि हममार्जनेन स्मरस्य चापश्रममादिशन्ति ।
मृगेक्षणाभिः सममव्युवास मध्यंदिने मध्यमलोकपालः ॥ ५४ ॥
चोलान्तक नितम्बिनीनां स्तनमण्डलेषु ।
साम्राज्यमानम्र जगत्त्रयस्थ मेने मनोजन्मनराधिपस्य |॥ ५५ ॥
हिमाद्रिशृङ्गाधिकशीतलेषु वराङ्गनातुङ्गकुचस्थलेषु ।।
घोरं निराकर्तमसो निदाघं विलेपनापाण्डुषु पण्डितोभूत् ॥ ५६ ॥
स्त्रीणाम नालेपन
शीतमङ्ग विपाटल: पाटलया समीरः ।
स्मरस्य वीरव्रतरक्षणाय तस्मिन्बभूत्र स्मितमल्लिका च ॥ ५७ ॥
प्रतारिताः कान्तिजलैवधूनां निपत्य यत्पाथसि दुग्धमुग्धे ।
न क्षीरनीरप्रविभागहे तोरन्यत्र इंसाः पुनरुत्सहन्ते ॥ ५८ ॥
रणधिरेफेषु सरोरुहेषु यत्रोपविष्टाः प्रतिभान्ति हंसाः |
समर्थ्य लीलागमनं गृहीतमञ्जीरनादा इव सुन्दरीभ्यः ॥ ५९ ॥
यत्पङ्कजैः स्नानविनोदभाजां जाने नरेन्द्रप्रमदाजनानाम् ।
मुखेन्दुबेम्बेरावेरोधहेतोः समर्पिता पादतलेषु लक्ष्मीः ॥ ६० ॥
श्रोणीतटोल्लासितरङ्गदोलाविलासवाचालित सारसासु ।

XII. 61. परिस्फुरत्केतकेतक● M9. - XII. 54. After this vs. the M9. inserts कुलकम्-