पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ विक्रमाङ्कदेवचरितम् | [सं० १२

स चन्द्रनालेपनशीतलेन गात्रेण चित्रं नरनाथचन्द्रः ।
प्रविश्य चित्तेषु मृगेक्षणानामनङ्गतापज्वरमाततान ॥ ३९ ॥
अङ्गान्यलक्ष्यन्त विलेपनेन नृपप्रकाण्डस्य विपाण्डुराणि
समुच्छलन्त्या प्रणयीकृतानि लावण्यरत्नाकरवेलयव ॥ ४० ॥
अङ्गुढये भूवलयावतंसः श्रीखण्डलोलातिलके बभार ।
जयामृतास्त्रादनतत्परायाः साम्राज्यलक्ष्म्यां इस रूप्यपात्रे ॥ ११ ॥
विभज्य दोभ्यां दधतो धरित्रीं तस्यांसयोश्चन्दनचित्रकाभ्याम् ।
ईषनुषार स्फटिकाचलेन्द्रशद्वयोष प्रकटीबभूक |॥ ४२ ॥
अंसद्येन श्रियमाससाद स चन्दनस्थासकं सुध्दरण ।
दोर्मन्दरालोडित संगविपीयूषपिण्डद्वय पाण्डुनेव॥ ४३ ॥
नृपेन्दुना चन्दनथारुलेखा ललाटपट्टे लिखिता दधार ।
वक्कारविन्दस्थितसूक्तिदेवीदेवार्चनस्फाटिकलिङ्गभङ्गीम् ॥ ४४ ॥
.
-


वस्तुषाराचलतुङ्गमस्य व्यराजदालेपनचन्दनेन ।
विश्वप्रविष्टार्कमयूखतापशान्त्यर्थमाश्लिष्टमिवेन्दुभासा ॥ ४५ ॥
शृङ्गारपाथोधितरंगभङ्गिरनविद्याधर
खड्ग लेखा ।
विलासिना संस्क्रियतेस्म तेन स्नानावसाने कबरी प्रियायाः ४६ ५.
वक्षःस्थले कुन्तलपार्थिवस्थ श्रीखण्डम्पातिलकश्चकासे ।
लक्ष्मी तुलाकोटिरवैर्मुखेन्दोः सरस्वतीहंस इवावतीर्णः ॥ ४७ ॥
शैत्यार्थमस्योद्वहतः कराठजे चक्राममम्भोरुहिणीपलाशम् ।
करान्तरे विभ्रमपुण्डरीकं रराज शौरेरिव पाञ्चजन्यः ॥ ४८ ॥
रराज राजीवावेलोचनस्य हृदि स्थिता चन्दनपङ्कलेखा ।
.मृणालिका वक्तगतोक्किदेवीयिमानइंसाननविच्युतेव ॥ ४९ ॥
प्रदर्शयन्तीव तुषारवर्षे विसारिणा शीकरडम्बरेण ।

XII. 42 तस्यांचयो ● Ms. - XII. 48. शैत्यर्थ Ms. 2