पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ विक्रमाङ्कदेवचरितम् |

सद्यः संभवडिम्भलोचनसुखग्राह्येण धाम्रा रविः ॥ ९२ ॥
उत्थाय मन्युवशतश्चालितुं प्रवृत्ताः
कर्ण गते झटिति कुक्कुटकण्ठनादे ।
किंचित्क्षुतादिनिभमात्रमुदीर्य नार्यः
प्राणेशकेलिंशयनेषु पुनः पतन्ति ॥ ९३ ॥
यः श्रीकण्ठललाटलोचन शिखि ठुष्टस्य चेतोभुवः
श्रीखण्डद्रवपाण्डुरेण महसा धारागृहत्वं गतः ।
अस्तक्ष्माघरमस्तके स भगवानालक्ष्यते चन्द्रमा:
क्षौद्रासङ्गापेश ङ्गमाहिषदधिच्छतायदातच्छविः ॥ ९४॥
नरपतिभिरलङ्घयशासनोसौ शिरसि मनोभवशासनं दधानः ।
वचनमिति निशम्य मागधीनां भुजमुपधानपदाञ्चकर्षं देव्याः ॥ ९५ ॥
इति श्रीविक्रमाङ्कदेवचरिते महाकाव्ये त्रिभुवनमल्लदे-
वविद्यापतिकाश्मीरकमह श्रीबिल्हणविरचित एकादशः स-
र्गः ॥ ११ ॥
दिनानि तत्र क्षणवहहूनि नीत्या बिलासैः कुसुमास्त्रमित्रैः ।
ग्रीष्मप्रवेशे सह पक्ष्मलाक्ष्या देवोथ कल्याणसमीपगोभूत् ॥ १ ॥
अस्मिन्क्षणे कुन्तलपार्थिवस्य प्रवेशमाकर्ण्य पुराङ्गनानाम् ।
आसन्विलासव्रतदीक्षितानां स्मरोपदिष्टानि विचेष्टितानि ॥ २ ॥
विस्वस्तरत्नाङ्करकोटिभिन्न
मुदञ्चितं वामपदं दधाना |
बभार कापि व्रतमेकपादमाराधनायेव नरेश्वरस्य ॥ ३ ॥
कीर्णाश्रु कर्णोत्पलरेणुनैकमन्यत्सहासं नयनं वहन्ती ।

XII. 3. रामनयेन M.s..