पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Z ९८ विक्रमाङ्कदेवचरितम् ।

आगतेन मस्तापि पुरस्ताल्लाघवस्थ परिहारममंस्त ॥ ४३ ॥
इत्थमाप्तयति मन्मथबन्धौ तारकापरिषूढे जरठत्वम् |
आदिदेश नृपतिः कृतभूषाः पानकेलिबिधये हरिणाक्षीः ॥ १४ ॥
अद्भुतास्वखुरली कुसुमेषोर्वित्रमाद्वरदबन्धनभूमिः ।
कुन्तलक्षितिपतिप्रमदानां पानकेलिरमसोथ जजृम्भे ॥ ४५ ॥
आलवालवलयस्थितिभाजां बन्धवः सरसरागलतानाम् ।
हेमपात्र निवहप्रणयिन्य: पाटलाः शुशुभिरे मधुधापः ॥ ४६ ॥
रत्नकेलिचषकेषु निविष्टं सीधु नव्यमसमायुधबन्धुः ।
राजदार परिचुम्बन केलित्रासजातमिव कम्पमुवाह ॥ ४७ ॥
विश्व संवननचूर्णसमानैः कामिनीकुलगुरोर्मदनस्य |
सख्यमाप घनसारपरागैः सीधु कुन्तलपतिप्रमदानाम् ॥ ४८ ॥
यामिनीप्रियतमप्रतिबिम्बं पूरितेषु मधुना विशदेन ।
लक्ष्यतेस्म चषकेषु निविष्टं स्फाटिकोपलपिधानमिवान्तः ॥ ४९ ॥
पुष्पसौरभवशेन विलोलाः पङ्कयः शुशुमिरे भ्रमसणाम् ।
सीधुहेमकलशीषु विनिर्यपधूमलतिकाकमनीयाः ॥ ५० ॥
सप्रणाममिव पाणिगतेभ्यः संमुखं विलुठिता चषकेभ्यः ।
आससाद मदिरा मदिराक्षीपाटलाघरदलप्रणयित्वम् ॥ ५१ ॥
आननेषु मदिरा प्रविशन्ती दन्तकान्तिनिकरैः कृतसङ्गा |
कामकीर्तिमिव कन्दलयन्ती दृश्यतेस्म नृपतिप्रमदानाम् ॥ ५२ ॥
प्रान्त पाटलकपोलतलानि प्रस्खलद्भणितिविभ्रमभाञ्जि ।
पार्थिवस्य मदनास्त्रमभूषन्नीलनीरजदृशां वदनानि ॥ ५३ ॥
मन्मथः प्रविशतिस्मं सुरायां सा कुरङ्गकदृशां वदनेषु ।
तानि चेतसि महीतिलकस्य क्षमापसंस्तदपि रागपयोवौ ॥ ५४ ॥

XI. 49. प्रतिनं Ms. - XI. 50. कळसीषु Ms.; कमनीय: Ms. [स° ११ .