पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° ११] विकमा कुदेवन्चरितम् |

चन्द्र किं पतसि में मधुभाण्डे बक्षिसे न किमु कुन्तलनाथम् ।
एष ते विरचयिष्यात कान्तां रोहिणीमलकपवहीनाम् ॥ ५५ ॥
नास्मि रे कुमुदिनी मधुपात्रे संमुखः किमिति तिष्ठसि चन्द्र |
रोहिणीनयन कज्जलजातः किं त्रपां दिशति ते न कलङ्कः ॥ ५६ ॥
त्वां निपीय मधुपात्र निषण्णं वारुणीरसमरेण सहैव ।
यामिनीरमण मानवतीनां संहरामि कुलकण्टकमदा || ५७ ।।
अस्ति दोषयुगलं द्विजराज त्वं यदि स्पृशसि मे मधुपारीम् ।
अत्र नैष सहते तव राजा रोहिणी रुषमुपैति च तत्र ॥ ५८ ॥
यामिनीदयित कामपि कान्तां दुर्लभाममिलषन्ध्रुवमेषि ।
तानवं किमपि तन्तुसमानं मानहीन विदितः परमार्थः ॥ ५९ ॥
क्षिप्यसे यदयमम्बरसीघ्रः क्षारवारिधिजले हरिणाङ्क |
चापलस्य फलमेतदवश्यं कोन्यथा त्वयि हिमविषि खेदः ॥ ६० ॥
लम्पटं युवतिषु ध्रुवमिन्दों त्वां विदन्ति तरलं निजदाराः ।
रे पदत्र चषकेपि निविष्टं तारकाः प्रतिमयानुसरन्ति ॥ ६१ ॥
कौमुदीरमण कापि दुराशां नूनमर्पितवती भवतोत्र ।
यद्विलङ्घन्य गगनं प्रतिरात्रि त्वं प्रयासि ककुभं वरुणस्य ॥ ६२ ॥
निर्मलं प्रियतमं हृदये मे किं करोषि कलुषं रजनोश |
मुञ्च रत्नचषके मदिरां मे किं न वेत्सि निजमङ्ककलङ्कम् ॥ ६३ ॥
वायुनापि गमितस्तरलत्वं यत्प्रदीपनमनोन्नमनानि ।
दर्शनोत्सुकतयेव विधत्से तद्वितीर्णसमयोसि कयापि ॥ ६४ ॥
कि गतेन बहुवल्लभभावं वञ्चिता प्रियतमेन वराकी ।
द्यौरियं वसति नित्यममोलत्तारकेष रजनीं यदशेषाम् ॥ ६५ ॥
गण्डयोररूणिमा हारी भावः कोपि च भ्रुकुटिषिभ्रमहेतुः ।

XI. 57. निषिण्णं M.. ९९