पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° ९ ] विक्रमाङ्कदेवचरितम् ।

अचन्द्रमा नेत्रचकोरवृत्तिरपुष्प निर्माणमनङ्गशस्त्रम् |
रागस्य लोकत्रयरञ्जनाय विद्येव विद्याधरराजकन्या ॥ २७ ॥
अकृत्रिमाद्वा गुणपक्षपाताद्विधः समायोगकुतूहलाद्वा ।
देव त्वदाकर्णनमात्रकेण सा त्वन्मयं पश्यति जीवलोकम् ॥ २८ ॥
अपारमापूरयता पृषकस्तानम्नि मयं वपुरुत्पलाक्ष्याः ।
लक्ष्येषु लब्धः कुसुमायुधेन वालाग्रसूक्ष्मेषु परः प्रकर्षः ॥ २९ ॥
तथा गता चम्पकदामगौरी शरीरयाष्टः कृशतां कृशाङ्गयाः ।
यथा गलचापमनोरथोस्यां मौलतास्थां मदनः करोति ॥ ३० ॥
नूनं स्मरः सौगतदर्शनोत्थं रहस्यमस्याः कथयांबभूव ।
त्वया विना व्यर्थमनोरथा यदात्मन्यवज्ञां प्रकटीकरोति ॥ ३१ ॥
दूरं गता कार्मुककर्मवार्त्ता तस्यास्तनुं सन्तुकृशां वहन्त्याः ।
नितान्तमप्राणतया मृगाक्षी शिजापि जाता न मनोभवस्य ॥ ३२ ॥
प्राप्ता तथा तानवमङ्गयांष्टत्वप्रयोगेण कुरङ्गदृष्टेः ।
धत्ते गृहस्तम्भनिवर्तितेन कम्पं यथा श्वाससमीरणेन ॥ ३३॥
शीतांशु बिम्बम तिबिम्बभङ्गया कुरदृष्टेः कुचकुम्भपीठे ।
स्मरानलद्वावितहारदाममुक्ताफलानामिव पिण्डमासीत् ॥ ३४ ॥
वातायनाद्रच्छति चित्रवेश्म तस्मानान्त वलभी ततोपि ।
एकत्र न क्कापि पदं करोति सा मन्मथ स्कन्दविशङ्कितेव ॥ ३५ ॥
आज्ञापितः स्वप्रविधौ हरेण स्वयंवरोस्याः क्रियतां त्वयेति ।
तस्याः पिता कस्यचिदार्थभाव न भूमिभर्तुः सफलं विधत्ते ॥ २६ ॥
पिता तदीयस्त्वाये सान्द्वरागः किं प्रार्थनामङ्गमयान्त्र वक्ति ।
भवादृशानां प्रणयं हि लब्ध्वा प्रयान्ति कन्याः कुलभूषणत्वम् ॥ ३७ ॥
स्वयंव रस्यावसरोपि जातः प्रसीद भूपाल कुरु प्रयाणम् |
असौ जयश्रीरिव ते द्वितीया सर्वान्विनिर्धूय वधूत्वमेतु ॥ ३८ ॥

IX. 35. वनांतवलभीं M.s.