पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाकदेवचरितम् |

कुस्ते हारमाणिक्यप्रदीपान्याण्डुरविषः ॥६६॥
संततोदय संप्येष वदनेन्दोरनिन्दिता ।
सदोष्ठमुद्रा लावण्यसमुद्रस्येव विद्रुमः ॥ ६७ ॥
मुखं वहति बन्धुकबन्धुरेणाधरेण सा ।
पूर्णेन्दुमिव सौदर्यादङ्कलालितकौस्तुभम् ॥ ६८ ॥
अधरोसौ कुरङ्गाक्ष्याः शोभते नासिकातले ।
सुवर्ण नलिकामध्यान्माणिक्यमिव विच्युतम् ॥ ६९ ॥
पुराणबाणत्यागाय नूतनास्त्रकुतूहलात् ।
तमासा भाति कामेन तूणेवाधोमुखीकृताः ॥ ७० ॥
अमुण्य मुषिता लक्ष्मीश्चक्षुषेति न नूतनम् |
न वेद्मि कथयत्यस्याः कर्णे लग्नं किमुत्पलम् ॥ ७१ ॥
मृगीसंबन्धिनी दृष्टिरसौं यदि न सुध्रुवः ।
धावति श्रषणोत्संसलीलादूर्वाङ्कुरं कुतः ॥ ७२ ॥
तस्याः श्रषणमार्गेण चलिते यदि लोचने ।
कुतः प्रकामधवले धत्तः कृष्णानुरक्तताम् ॥ ७३ ॥
श्रूयतां कौतुकं सोपि स्मरः शृङ्गारिणां गुरुः |
अमुण्याः शिष्यतामेति श्रवणोन्मुखयोर्दृशोः ॥ ७४ ॥
सौन्दर्पपात्रे बन्दी कुरङ्गासङ्गमीतया ।
सूत्रित श्रोत्रपाशाभ्यां पाशाविव मृगीदृशा || ७५ ॥
किंचित्स विभ्रमोदञ्चिभूलता भाति भामिनी ।
बालक्रीडाप्रतिद्वंद्वि तर्जयन्तीय यौवनम् ॥ ७६ ॥
भास्वत्कुण्डलमाणिक्यप्रभाप्रतिहतेरिव ।
नतामयाः श्रवणोत्सङ्ग मारूढा नयनद्वयी ॥ ७७ ॥
भूलेखायुगलं भाति तस्याश्चटुलचक्षुषः ।

७० [स