पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° ८] विक्रमाङ्कदेवचरितम् ।

नाहं धार्यमधीराक्षि मुखेन्दोः संमुखं त्वया ।
इतीव लीलापन करस्या: कान्तिरर्पिता ॥ ५५ ॥
आयूरेखां चकारास्याः करे द्राधीयसी विधिः ।
शौण्डीर्यगर्वनिर्वाहप्रत्याशां च मनोभुवः ॥ ५६ ॥
गौराङ्गया भुजलावण्यमीलितं हेमकङ्कणम् |
कण्ठाश्लेषे वयस्याभिः काठिन्यादन्त्रमीयत ॥ ५७ ॥
प्रकोष्टबन्धे बिम्बोष्टयास्तस्याः काञ्चनकङ्कणम् ।
नालं वलयितं हस्ते हेमान्जस्येव राजते ॥ ५८ ॥
सौवर्णकङ्कणश्रेण्या भाति ताहुकन्दली ।
तूणचम्पक्रमौर्येव पुष्पचापेन वेष्टिता || ५९ ॥
अङ्गुलीभिः कुरङ्गाक्ष्याः शोभते मुद्रिकावलिः |
प्रोतेय बाणैः पञ्चेषोः सूक्ष्मलक्ष्यपरंपरा ॥ ६ ॥
सहेमकटकं धत्ते सा करं पद्मतस्करम् ।
पद्मिनीवल्लभस्येत्र मूले वेष्टितमंशुना ॥ ६१ ॥
हस्ते चकास्ति बालायास्तस्याः कङ्कणमालिका |
मनःकुरङ्गबन्धाय पाशालीव मनोभुवः ॥ ६२ ॥
कृशाङ्ख्या: कुचमारण दूरमुत्सारितौ भुजौ ।
वहतः कलहायेव वाचालां वलयावलिम् ॥ ६३ ॥
सरले एव दोर्लेखे यदि चञ्चलचक्षुषः ।
अमुग्धाभ्यो मृणालीभ्यः कथमाजतुः श्रियम् ॥ ६४ ॥
बाहू तस्याः कुचाभोगनिरुद्धान्योन्यदर्शनौ ।
मन्त्रितं कथमेताभ्यां मृणालीकीर्तिलुण्ठनम् ॥ ६५ ॥
मुखारविन्ददत्तश्रीः सुतनोररूणोधरः |

VIIT, 65 तस्या Ms.