पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ विक्रमाङ्कदेवचरितम् ।

शङ्के तञ्चित्तमक्लेशसाध्यं कुसुमधन्वनः ।
काठिन्यं बहिरेवास्याः स्तनाभ्यां येन धारितम् ॥ ४३ ॥
सा स्तनाञ्जलिबन्धेन मन्मथं प्रथमागतम् |
करोतीयोन्मुखं बाला बान्धवं यौवनश्रियः ॥ ४४ ॥
अस्त्यप्रति समाधेयं स्तनस्य दूषणम् |
स्फुटतां कञ्चकानां यन्नायात्यावरणीयताम् ॥ ४५ ॥
कुम्भौ सदम्भौ करिणां कलशौ मन्दकौशलो ।
चक्रनाको बराकौ च तदीयकुचयोः पुरः ॥ ४६ ॥
मुखेदुन्द्रिकापूरलायमानी पुनःपुनः |
शीतभीताविवान्योन्थं तस्याः पीडयतः स्तनौ ॥ ४७ ॥
तत्कुचौ चरतः किंचिभूनं मनसिजव्रतम् |
नित्योन्मुखौ यदासाते मौलिरत्नस्य भास्वतः ॥ ४८ ॥
सा धारयत्यधोराक्षी दुवैह स्तनमण्डलम् |
गर्वपर्वतमारूढश्चित्रं कुतुमकार्मुकः ॥ ४९ ॥
तस्यास्तुस्तनच्छाया चकास्ति त्रिवलीतटे |
लीना तिमिरलेखेव बढ़नेन्दोरगोचरे || ५० ||
अयं त्रयाणां ग्रामाणां निधानं मधुरध्वनिः ।
रेखानयमितीवास्याः सूत्रितं कण्ठकन्दले ॥ ५१ ॥
असावुद्वेललावण्यरत्नाकर समुद्भवः ।
जगद्विजयमङ्गल्यशङ्खः कुसुमधन्वनः || ५२ ॥
श्रोत्र पीयूषगण्डूषैः काकलोकलगीतिभिः ।
कण्ठः कुण्ठितचातुर्यो विपञ्ची पञ्चमध्वनेः || ५३ ॥
कुसुमायुधकोदण्डे हस्तौ विस्तीर्णचक्षुषः ।
अशोकपल्लत्रास्त्राणां प्रतिहस्तत्वमागतौ ॥ ५४ ॥