पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° ८ ] विक्रमाङ्कदेवचरितम् ।

लिखन्त्याः कामसाम्राज्यशासनं यौवनश्रियः |
गलितेव मषोधारा रोमाली नाभिगोलकात् ॥ ३१ ॥
जाने रात्रिषु तन्मध्ये ददाति शनकैः
गम्भीरनामिकुहरप्रवेशशङ्कया
पदम् ।
स्मरः ॥ ३२ ॥
हारः कुरङ्गशावाक्ष्या राजति स्थूलमौक्तिकः ।
नामिलावण्यपानोयघटीयन्त्रगुणोपमः ॥ ३३ ॥
स्तनभाराय मध्येन त्रिवलिव्याजतः कृता ।
तस्याः शङ्कितभङ्गेन धूमङ्गानामिवावलिः ॥ ३४ ॥
तदीय त्रिवली मार्गसोपानारोहणश्रमः ।
अनङ्गत्वादनङ्गस्य जातो रत्येकगोचरः ॥ ३५ ॥
परिहृत्य दुरारोहं तस्याः स्तनतटं कृतर |
कन्दर्परथ
संचारमार्गालीय वलिजयी || ३६ ॥
दरिद्रमुदरं दृड्डा चक्रे लावण्यपूर्णयोः ।
पन्थानं स्तनयोस्तस्यास्त्रिवलीविषमं विधिः ॥ ३७ ॥
राजति त्रिवली तस्याः स्तनभारोन्नतिक्रमात् |
उपर्युपरि जातेव हारमुद्रापरंपरा ॥ ३८ ॥
युक्तं मध्ये कृशा तन्त्री कार्मुकीकरणाय यत् ।
अत्रैव कुसुमास्त्रेण पोडयते श्लिष्टमुष्टिना ॥ ३९ ॥
स्तनौ भारार्पणव्यग्रौ काञ्ची कलकलोन्मुखी |
कस्यां दिशि न मध्यस्य तस्याः कार्यं सहेतुकम् ॥ ४० ॥
भाति निविवरे तस्याश्चित्रं कुचयुगान्तरे |
" क्रीडाकुण्डलितोचण्डकोदण्डः कुसुमायुधः ॥ ४१ ॥
कुचद्वये चकोराक्षी चिबुकप्रान्तचुम्बिान ।
नर्मोक्तिषु न शक्नोति स्थातुं लज्जानतानना ॥ ४२ ॥

VIII. 32. प्रवेशाश• Ms. – VIII. 41. माति Ms.