पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् ।

श्रोण्यां कथंचित्कुरुते रशनादामबन्धनम् ॥ १९ ॥
अनङ्गरङ्गपीठोस्थाः शृङ्गारस्वर्णविष्टरः ।
लावण्यसारसंघातः सा घना जघनस्थली ॥ २० ॥
तन्त्रितम्बस्य निन्दन्ति वृद्धि परिजनाङ्गनाः |
का चीनवनवग्रन्थिग्रथनेन कर्थिताः ॥ २१ ॥
नितम्बगौरवेणासौ गौराङ्गी खिद्यते दृढम् ।
हारयत्यपरिस्पन्दा कन्दुकं क्रीडितेषु यत् ॥ २२ ॥
सदीयजघनाभोगगरिमा विस्मयास्पदम् |
दूरपाती पृषत्कोभूदीनानङ्गस्य साङ्गना ॥ २३ ॥
नामिरन्धं प्रविष्टास्याः श्यामला रोमवल्लरी |
त्रस्ता तिमिरलेखेव मेखलामणिकान्तितः ॥ २४ ॥
भाति रोमावली तस्याः पयोधरभरोन्नतौ ।
जाता रत्नशलाकेव श्रोणिवैदूर्यभूमितः ॥ २५ ॥
नाभिसङ्गेन गौराङ्गन्याः शोभते रोममञ्जरी |
कन्दर्पहेमकटकाळाक्षाघारेव निर्गता ॥ २६ ॥
नाभीवलयसंबद्धा रोमाली भाति सुध्रुवः ।
सहिता निगडेनेव शृङ्खला स्मरदन्तिनः ॥ २७ ॥
रोमावली विलासिन्याः प्रविष्टा नाभिमण्डलम् ।
कियगाम्भीर्यमत्रेति तात्पर्यमिव बिभ्रती ॥ २८ ॥
स्तनौ तुङ्ग समारूढे चापन्यस्तभरे स्मरे ।
कोदण्डाट निमुद्रेव जाता नाभी मतभुवः ॥ २९ ॥
मन्ये समाप्तलावण्यसारे सर्गे भृगीदृशः |
अपूरयित्वेय गतो नामिरन्धं प्रजापतिः ॥ ३० ॥

VIII. 19 रखना Ms. - VIII. 22. कंदुकी - VIII. 28. बनती Mr. [स० ८