पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स° ८ ] विक्रमाङ्कदेवचरितम् ।

इति कोपादिद्याताम्रं पादयुम्भं मृगीदृशः ॥ ८ ॥
तत्पादनखरत्नानां यदलक्तकमार्जनम् ।
इदं श्रीखण्डलेपेन पाण्डुरोकरणं विधोः ॥ ९ ॥
जाग्रतः कमलालक्ष्मी यज्जग्राह तदद्भुतम् !
पादद्वंद्वस्य मत्तेभगतिस्तेये तु का स्तुतिः ॥ १० ॥
अत्यपूर्वस्य रागस्य पूर्वपक्षाय पल्लवाः ।
पद्मानि पादयुग्मस्य प्रत्युदाहरणानि च ॥ ११ ॥
दृश्यन्ते मानसोत्तंसा राजहंसाः कचियदि |
गतौ चरणयोस्तस्याः प्रक्ष्यते यावदन्तरम् ॥ १२ ॥
नितम्बपीड्यमानेन पादयुग्मेन सुध्रुवः ।
कृता भ्रुकुटिभङ्गीव नीलनूपुरमालया |॥ १३ ॥
हेममञ्जीरमालाभ्यां भाति जङ्घालताद्वयम् |
कृतालवालं लम्बाभ्यां कुङ्कुमेनेत्र सुनुवः ॥ १४ ॥
लम्भिताः कदलीस्तम्भास्तद्रूभ्यां पराभवम् ।
अत्यन्त मृदुभिलब्धो जडैः क्व जयडिण्डिमः ॥ १५ ॥
मन्ये तद्रू संभाव्य हस्तसर्वस्वहारिणौ ।
वहन्त्यस्पृश्यताहेतोर्मातङ्गत्वं मतङ्गजाः || १६ ||
नितम्बबिम्बं बिम्बोष्ठी चन्द्रकान्तशिलाघनम् ।
धत्ते कन्दर्पदोःस्तम्भप्रशस्तिफलकोपमम् ॥ १७ ॥
विस्तारिणा मुहुस्तस्याः श्रोणोबिम्बेन पीडिता |
त्रुटितात्रुटितास्मीति पूत्करोतीति मेखला ॥ १८ ॥
अपर्याप्तभुजायामः सखेदोस्याः सखोजनः ।

3 VIII. 10. लक्ष्मीर्ये • Ms.--VIII. 13. कृनाभूस्कु° Ms. - VIII 14. कृना लवालालम्ब(क्रम्यान्कु • Ms. ०