पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् । छायामात्र

पारग्रहोपे जगृहे पञ्चेषु जैत्रेषुताम् |
साम्यत्तालु विटङ्क संकटतटीसंचारतः पञ्चमः
सोयं कोकिलकामिनीगलबिलादामूलमुन्मूलति ॥ ७६ ॥
विहरबिधुरकामिनीसहस्रप्रहितमनोभवलेखसूक्तिमिश्रैः ।
सुरभिसमयवर्णनैरकुर्वन्निति नृपतेरथ वन्दिनः प्रसादम् ॥ ७७ ॥
इति श्रीविक्रमाङ्कदेवचरिते महाकाव्ये त्रिभुवनमल-
देवविद्यापतिकाश्मीरकमहाबल्हणविरचिते सप्तमः सर्गः ॥
६४

8
समये तत्र पुष्पात्रमित्रे विक्रमभूपतेः ।
उद्भूतनूतनाश्चर्या श्रोत्रमैत्रीमगात्कथा ॥ १ ॥
यथास्ति विजयस्तम्भप्रशस्तिरिय मान्मथो ।
• करहाटपतेः पुत्री त्रिजगन्नेत्र कार्मणम् ॥ २ ॥
विद्याधरकुमारी सा गौरीतिशासनात् ।
कृते कस्यापि कुरुते स्वयंवरमहोत्सवम् ॥ ३ ॥
चन्द्रलेखेति नामास्याश्चन्द्रलेखासमत्विषः ।
मृत्युंजय महामन्त्रमैत्रीमेति मनोभुषः ॥ ४ ॥
अन्तरङ्गमनङ्गस्य शृङ्गारकुलदैवतम् ।
अङ्गीकरोति तन्वङ्गी सा विलासमयं वयः ॥ ५ ॥
तस्याः पादनखश्रेणिः शोभते लटभभुवः ।
रत्नावलीव लावण्यरत्नाकरसमुद्रता ॥ ६ ॥
स्तनभारोत्र वन्दुचन्द्रिकावरणं मम |
इति तत्पादयोग्रा वेद्मि प्राङ्गणपद्मिनी ॥ ७ ॥
अमूल्यस्य मम स्वर्णतुलाकोटिद्वयं कियत् ।

VIII. 2. त्रिगन्नेत्र ● Ms. . [स 19