पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Y स° ८] विक्रमाङ्कदेवचरितम् ।

पत्रद्वयीय हरिता नासावंशस्य निर्गता ॥ ७८ ॥
नासावंश विनिर्मुक्तमुक्ताफलसनामिना 1
भाति मालतलस्थेन बालचन्दनबिन्दुना ॥ ७९ ॥
तस्याः कचमरव्याजात्तनयस्त्रेहलालितः |
आरूढः पार्वतीबुद्धया गुहबींव मूर्धनि ॥ ८० ॥
गण्डे मण्डनमात्मनैव कुरुते वैदग्ध्यगर्षादसौ
त्यक्का हेमविभूषणानि तनुते ताडीदलेष्वाग्रहम् |
मन्दा कन्दुकखेलनाय भजते शारीषु शिक्षारसं
तन्या चित्रमकाण्ड एक लंटभाभावे निबद्धो भरः ॥ ८१ ॥
भृङ्गालीमुदरे क्षिपन्ति शतशः पद्मानि शस्त्रीमिय
प्रत्यागच्छति लङ्घनार्थम सकृयोमाङ्गणं चन्द्रमाः ।
षणापहृते कुरङ्ग सुहशस्त्रैलोक्यरूपोचये
प्रत्यावर्तनवाञ्छयेव कति न क्लेशं समातन्वते ॥ ८२ ॥
दायादत्वं मनसिजधनुर्भूविलासस्य धत्ते
योगक्षेमौ वहति नयनद्वंद्वमिन्दीवराणाम् ।
सद्रात्राणां पुनरिह जगज्जैत्र लावण्यभाजा-
भाभात्यये मलवदखिलं मूलवणं सुवर्णम् || ८३ ||
हशोः सीमाबादः श्रषणयुगलेन प्रतिकलं
स्तनाभ्यां संरुद्धे हृदि मनसिजस्तिष्ठति बलात् ।
नितम्ब: साक्रन्दं क्षिपात रशनादाम परतः
प्रवेशस्तन्वङ्ख्या वपुषि तरुणिनो विजयते ॥ ८४ ॥
दोलायां जघनस्थलेन चलता लोलेक्षणा लज्जते
७१

VIII. 78. नाशा ° Ms. - VIII. 81. सारीषु Ms. - VIII. 84. रसना Ms.j क्षपति Ms.