पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् | →

प्रक्षाल्यमानस्य शनैरवापुर निन्दद्यमिन्दोः किरणाः प्रसादम् ॥ ५५ ॥
त्वं चैत्र मित्रं यदि मन्मथस्य तस्मिन्ननङ्गे कथमक्षताङ्गः ।
ज्ञातं तवान्तर्गतमागतोसि मिषेण नाशाय वियोगिनीनाम् ॥ ५६ ।।
नूनं महापाताकेनं वितर्क्स वियोगिवर्गक्षयदीक्षितं त्वाम् ।
पस्पर्श न त्र्यम्बकनेत्रवः पारखण्डैः प्रियखण्डितानाम् ॥ ५७ ॥
हराइवे पञ्चशरं विमुच्य पलायितः क्षत्रपरामुखस्त्वम् ।
अस्य क्षताङ्गस्य पुरोधनात्र हा चैत्रचण्डाल कथं स्थितोसि ॥ ५८ ॥
इहैव सङ्गः फलवान्बभूव त्वया महापातकिनां पिकानाम् ।
यदर्भदग्धोल्मुककश्मलेन देहेन लोकस्य बहिश्चरन्ति ॥ ५९ ॥
त्वं दृष्टदोषोपि पुनः स्मरेण यत्संगृहीतः शृणु तन्त्र हेतुम् ।
अङ्गीकृतस्त्रीषधपातकेन केनापि न स्वीकृत एष भारः ॥ ६० ॥
इत्थं वियोगज्यरजर्जराणामुजितानां मधुमासलक्ष्म्या |
आसन्मुहुः पदमललोचनानां चैत्रे विचित्रोक्ति विचेष्टितानि ॥ ६१ ॥
गम्भीरता चाटुपराङ्मुखत्वं सौभाग्यमन्यप्रमदारदाङ्कः ।
दोषोपि यूनां गुण एष मेने पुरन्ध्र मिर्मानपराङ्मुखीभिः ॥ ६२ ॥
मानग्रन्थिकदर्शनाय कथिताः सर्वत्र पुंस्कोकिला:
केलीकमणि दाक्षिणात्य मरुतामध्यक्षमावोर्पितः ।
पुष्पास्त्रस्य जगत्त्रयोप विरहप्रत्यूह हेवाकिनः
संद्रीय माध्यसाधनविधी साम्राज्यमैत्री मधुः ॥ ६३ ॥
सं° [७]
लीलाखानविधिक्षमं मधुलिहां पुष्पेषु जातं मधु
स्थायित्वं कलकण्ठकण्ठकुहरेष्वासेवते पञ्चमः |
एकच्छच जगज्जयार्जनरुचेर्देवस्य श्रृङ्गारिण-
श्चैत्रश्चित्रमकाण्ड एव समभूत्रैलोक्यजैत्री भटः || ६४ ॥

VII. 62. गंभीरता Ms.