पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, विकमाङ्कदेवचरितम् ।

यत्कोपनिःश्वासपरंपराभिः पीनत्वमायात्ययमुष्णतां च ॥ ९ ॥
बाणेन हत्वा मृगमस्व यात्रा निवार्यतां दक्षिणमारुतस्य |
इत्यर्थनीयः शबराधिराजः श्रीखण्डपृथ्वीघरकन्दरस्थः ॥ १० ॥
यद्वा मृषा तिष्ठतु दैन्यमेतन्नेच्छन्ति वैरं मरुता किराताः ।
केलिप्रसङ्गे शबराजनानां स हि स्मरग्लानिमपाकरोति ॥ ११ ॥
दुराग्रहश्चन्दनमारुतस्य सदा यदन्यपरामखोयम् ।
अनेन चैत्रः सुतरामसह्यश्चन्द्रोदयेनेष शरत्प्रदोषः ॥ १२ ॥
वियोगिनीनां किमु पाप मे तन्मेधाथवा दक्षिणमारुतस्य ।
कदापि दिग्मोहवशाद्यदेष न चन्दनाद्वेः परतः प्रयाति ॥ १३ ॥
'इति भ्रमत्सौरभमांसलेन निमीलितानां मलयानिलेन 1
अभूचिरं भूमिगृहस्थितानां प्रलापमाला प्रियकाङ्गिणीनाम् ॥ १४ ॥
कन्दर्पदेवस्य विमानसृष्टिः प्रसादमाळा रसपार्थिवस्य ।
चैत्रस्य सर्वतुविशेषाचेङ्गं दोलाविलासः सुदृशां रराज ॥ १५ ॥
दोलाधिरूढस्य वधूजनस्य नितम्बमारण गतागतेषु |
त्रुटिर्यदालम्वगुणेषु नामूत्सा भाग्यशक्तिः कुसुमायुधस्य ॥ १६ ॥
जनेषु दोलातरलाः पुरंधीः संभूय भूयःसु विलोकयत्सु |
लक्ष्यस्य विस्तीर्णतया मनोभूरवन्ध्यपातरिषुभिर्ववर्ष ॥ १७ ॥
दोलाविनोदेन विलासवत्यः सुदूरमारुह्य निवर्तमानाः |
अर्ध नमःप्राङ्गणसङ्गिनीनां बिलासमापुस्त्रिदशाङ्गनानाम् ॥ १८ ॥
विलासदोलाफलके नितम्ब विस्ताररूद्धे परितस्तरुण्याः |
लब्धः परं कुञ्चितकार्मुकेण तत्रावकाशः कुसुमायुधेन ॥ १९ ॥
सौन्दर्यमिन्दीवरलोचनानां दोलासु लोळासु यदुल्लुलास
यदि प्रसादालभते कवित्वं जानाति तद्वर्णयितुं मनोभूः ॥ २० ॥

VII. 10. पृक्षकन्दर ● Ms. ५७