पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कदेवचरितम् |

विघटितकवचश्चचार कश्चित्प्रतिकिटं विलोक्य |
विमलविजयलालसाः खलानामवसरमल्पमपि प्रतिक्षिपन्ति ॥ ७८ ॥
रुधिर मृतकपालपामध्ये मदकरटी विनिपत्य कर्णतालैः ।
शिशिरभित्र चकार पानपात्रप्रणयिनमासवमागतस्य मृत्योः ॥ ७९ ॥
उपरि निपतितः कपाल शुक्तेः श्रवणपुटः करिणः कृपाणलूनः |
समरभुवि कृतान्तपानलीलाचषक पिधानविलासमाससाद || ८० ॥
अनियतविजयश्रियि प्रवृत्ते चिरमिति तत्र महाहवप्रबन्धे ।
प्रातसुभटकपालपाटनाय द्विरदमुदञ्चयतिस्म राजसूनुः ॥ ८१ ॥
क्षणमुदचलदुच्चलत्पता के द्रविडवले क्षणमग्रजस्य सैन्ये ।
रणभुवि स चचार यत्रयन्त्र न्यपिबदरातियशांसि तंत्रतत्र ॥ ८२ ||
पददलितबृहत्कपालजाले करग्नेि तस्य दुरापभाजनानाम् ।
सुभट रु धिरसोधुपानकेलिव्र्व्यघटत तत्र पिशाचसुन्दरीणाम् ॥ ८३ ॥
ध्रुवमरिषु पदं व्यधत लक्ष्मीः सुरभिकुशेशयकोशकेलिसक्ता |
नृपसुतकरवाललेखया यन्मधुकरमालिकयेव चुम्ब्यतेस्म ॥ ८४ ॥
अनुकृतसमवर्तिपानलीलाचषककरालकपाल शुक्तिमंत्र्ये ।
करिदशन परंपरा निपत्य श्रियमंतनदुपदंशमूलकानाम् ॥ ८५ ॥
वशमवनिपतिद्वयं नयन्ती चटुलपृषककटाक्षमालिकाभिः ।
क्षितिपतितनयेन वीरलक्ष्मीः सुचिरमनर्त्यत संगरावर ॥ ८६ ॥
कुलिश निशितकङ्कपत्तामेन्नास्त्रिभुवनभीमभुजस्य राजसूनोः ।
प्रतिभटकरटिस्थिताः प्रवीराः प्रणतिपरा इव संमुखा निपेतुः ॥८७॥
द्विरदपतिरमुष्य 'शत्रु सेनाभटमुखपद्मविमर्दकलिकारः ।
५४
झटिति रणसरश्चकार लक्ष्मीकरघृतविभ्रमपुण्डरीककोशम् ॥ ८८ ॥
धृतसुभटकरङ्कम ङ्कवर्तिद्विरद्घटाविकटास्थिचक्रवालम् ।
रणमनणु कृतान्तभुक्तशेषप्रणयि बभूव शिवासहस्त्र योग्यम् ॥ ८९ ॥