पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३ विक्रमाङ्कदेवचरितम् ।

प्रसरदुभयतः प्रहारसज्जं बलयुगलं तदवेक्ष्य वोक्षतेस्म |
समुचितसमरोपभोगलोभात्प्रतिकलमुत्पुलकं भुजद्वयं सः ॥ ६ ७ ॥
मदकरटिनमुत्कट प्रतापः प्रकटितवीर मृदङ्गधोरनादः ।
मथनगिरिमिवाधिरुह्य वेगात्प्रतिबलवारिधिलोडनं चकार ॥ ६८ ॥
अहमहमिकया प्रधाविताभ्यां मिलितममुष्य बलं तयोर्बलाभ्याम्
सलिलमभिमुखं सहाम्बुराशेस्तदनु महानदयोरिषोदकाभ्याम् ||६ ९॥
मुखमसितपताकया पतन्त्या ध्वजगरुडः परिचुम्बितं दधानः ।
वदनपरिगृहीत पन्नगस्थ व्यतनुत सत्यगरुत्मतः प्रतिष्ठाम् ॥ ७० ॥
प्रकटितपटु मौक्तिकावतंसद्विरदशिरः स्थल संगति प्रपद्य |
अलमत परमार्थसिंहलीलां करिवरकेतुपरिच्युतो मृगेन्द्रः ॥ ७९ ॥
कथमपि विनिपत्य संचरन्तः क्षतजतरंगवतीषु चिङ्गमस्याः |
सुरयुवतिविलोचनानि संख्ये विदधुर कृत्रिममत्स्यशङ्कितानि ॥ ७२॥
संघरपटलकदमैन दूरं रणभुवि दुर्गमतामुपागतायाम् ।
गमनमनिमिषप्रियाजनस्य प्रियमकरोदवलम्बनानपेक्षम् ॥ ७३ ॥
प्रहतिनिवहमूर्च्छितोधिरोहः स्वकरटिकर्णपुटानिलैः प्रबुध्य ।
अपर सुभटपातिते प्रहर्तर्यनुशयमापदलब्ध वैरशुद्धेिः ॥ ७४ ॥
नयनगतमरातिबीरचूडामणिदलनप्रभवं परागमेकः ।
करिदशनविदारितात्मवक्षःस्थलरुधिराञ्जलिभिर्निराचकार || ७५ |
महति समरसंकटे भटोन्यः प्रतिभटनिर्दलनात्समाप्तशस्त्रः ।
अगणितमरणः प्रविश्य वेगादरिकरतः करवालमाचकर्ष ॥ ७६ ॥
असुभिरपि वियासाभेः प्रविश्य प्रतिमटमूर्धनि कोपि दत्तपादः ।
फलममनुत जन्मनोपि लब्धं यशसि रतिर्महतां न देहपिण्डे ॥ ७७ ॥

VI. 67. दुभयत महार Ms. - VI. 68, मिवारूप Mr. VI. 77 अशुभिः Ms,