पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विक्रमाङ्कन्देवचरितम् | [स° ६

प्रतिपदमतिकातराः क्षितीशाः परिकलयन्ति भयं समन्ततोपि ॥३४॥
अभिसरणपरा सदा वराकी समरमहावसु रक्तपङ्गिलेषु ।
हृदि धरणिभुजामियं नृपश्रीर्निहितपदेष कलङ्कमातनीति ॥ ३५ ॥
गुणिनमगुणिनं वितर्कयन्ती स्वजनममित्रमनाप्तमातवर्गम् ।
वितरति मतिविप्लवं नृपाणामियमुपसर्पणमात्रकेण लक्ष्मीः ॥ ३६ ॥
विधिलिखितमिदं कुटुम्बमध्ये नृपतिपदं समुपैति कञ्चिदेव ।
इति हृदि न विचारयन्ति भूपाः कुलमापे निर्दलयन्ति राज्यलुब्धः ३७
अनुचितममुना किमग्रजस्य व्यवसितमुन्नतचेतसा यदस्मिन् ।
अपकरणधिया चकार संधि कुलरिपुणा सह चोलराजिगेन ॥ ३८ ॥
अथ नृपतनये कृतप्रयाणे गलितनयस्य वधाय राजिगस्य |
स्वरिततरमुपागतोस्य पृष्ठे सह सकलेन बलेन सोमदेवः ॥ ३९ ॥
अनुसरदासतात पत्रमैत्री मधुकरमण्डलमाससाद येषाम् ।
अतिविपुलकपोलदानपङ्कप्रभवसरोरुहिणीदलानुकारम् ॥ ४० ॥
अगणितसृणिभिः प्रधावितैर्यैः कुलगिरयः परिघट्टितास्तटेषु ।
मुमुचुरिव मुखैरजस्रमस्त्रं विगलितधातुतरंगिणीमिषेण ॥ ४१ ॥
निजदशनयुगेकबद्धवासां श्रियमिव कर्तुमुपोढकौतुका ये ।
स्मरणशरणपङ्कजांनि चक्रुः सततममर्षपुरःसराः सरांसि ॥ ४२ ॥
श्रवणमधुरविस्फुरद्धतीनां व्यधुरुषकारावेयेव षट्पदानाम् ।
मदसलिलमुदारसौरभं ये विटपिविधूननपातिभिः प्रसूनैः ॥ १३ ॥
निजतनुभरगौरवाद्द्वलन्ती क्षितिमिव ये दधतिस्म शैलतुङ्गाः ।
मदमुकुलितलोचनांश्चलन्तः किमपि करैः सविलासमुन्नमद्भिः॥४४॥
रणजलधि विलोडनप्रचण्डा गिरय इव द्विरदेश्वरास्तदीयाः ।
दधुरतिमहतीमतीतसंख्याः श्रियमधिरोहितयोधमण्डलास्ते ॥ ४५ ॥

VI. 34. [क्षेतीश: Ms. ५ +