पृष्ठम्:वायुपुराणम्.djvu/१११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६६ वायुपुराणम् तेषां दर्शनमात्रेण मुच्यते पातकैर्नरः । वामहस्ते शिलायास्तु तथा चोद्यन्तको गिरिः स पर्वतः समानीतो ह्यगस्त्येन महात्मना = | तत्र ब्रह्मा हरेश्चैव तपश्चोग्रं च चक्रतुः तत्रागस्त्यस्य हि वरं कुण्डं त्रैलोक्यदुर्लभम् । यत्र मुन्यष्टकं सिद्धं तपस्तप्त्वा शिवं गतम् || कुण्डे मुन्यष्टकं नत्वा पितृ ब्रह्मपुरं नयेत् अगस्त्येनाथ देवर्षे उद्रयाद्रेर्महात्मना । शिलाया वामहस्तेऽपि स्थापितो गिरिराट्शुभः ||

  • वादित्रद्यौदिव्य मितैराद्यो वादित्रको गिरिः

॥४३ ॥४४ == इत उत्तरमेते श्लोका मुद्रितपुस्तकपाठेऽघिका उपलभ्यन्ते - स्थापितः पिण्डदस्तत्र पितॄन्द्रह्मपुरं नयेत् । कुण्डश्चोद्यन्तकस्तत्र आपत्मनस्तसा कृतः ।।१।। ब्रह्मणा तत्र सावित्रीकुमाराभ्यां सह स्थितम् | हाहाहूहूप्रभृतयो गीतिनादं प्रचक्रिरे ||२|| कुण्डमुद्यन्तकं तत्र गोतवादित्रको गिरिः । अगस्त्यो भगवान्यन्त्र तपश्चौग्रं चकार ह ॥३॥ ब्रह्मणस्तु वरं लेभे माहात्म्यं भुवि दुर्लभम् | लोपामुद्रां तथा भार्या पितॄणां परमां गतिम् ||४|| स्नातस्तत्र च मध्याह्न मावित्री समुपास्य च । कोटिजन्म भवेद्विप्रो धनाढ्यो वेदपारगः ||५|| अगस्त्यस्य पदे स्नात्वा पिण्डदो ब्रह्मलोकगः । पितृभिः सह धर्मात्मा पूज्यमानो दिवौकसाम् ||६|| ब्रह्मयोनि प्रविश्याथ निर्गच्छेद्यस्तु मानवः । परं ब्रह्म स यातीह विमुक्तो योनिसंकटात् ॥७॥ नत्वा गयाकुमारं च ब्राह्मण्य लभते नरः । सोमकुण्डा भिषेकी च सोमलोकं नयेत्पित्न् ॥८॥ बलिः काकशिलायां तु काकेभ्य ऋणमोक्षदः । स्वर्गद्वारेश्वरं नत्वा स्वर्गाद्ब्रह्मपुरं व्रजेत् ||१|| पिण्डदो व्योमगङ्गाया निर्मलः स्वर्नयेपितॄन् । शिलाया दक्षिणे हस्ते भस्मकूटमधारयत् ॥ ततोऽसो भस्मकटाद्रिर्भस्मस्नातश्च नारद ||१०|| वटो वटेश्वरस्तत्र स्थितषच प्रपितामहः | मतङ्गस्य पदे मुन्ये पिण्डदः स्वर्नयेत्पितॄन् ॥११॥

  • इदमधं नास्ति ख. पुस्तके |

॥४५ ॥४६ है उनके केवल दर्शन करने से मनुष्य पाप कर्मों से मुक्ति पा जाता है । शिला के बाएं हाथ पर उद्यन्धक नामक गिरि प्रतिष्ठित है, महात्मा अगस्त्य उस पर्वत को यहाँ लाकर स्थापित किया था । उस पर्वत प्रान्त में भगवान् ब्रह्मा एवं शिव ने उग्र तपस्या को थी । वहाँ अगस्त्य का त्रैलोक्य दुर्लभ परम रमणीय कुण्ड है, जिसमें आठ मुनियों ने परम कठोर तपस्या कर सिद्धि एवं शिव की प्राप्ति को थो । उस कुण्ड में उक्त आठों मुनियों को नमस्कार कर मनुष्य अपने पितरों को ब्रह्मपुर पहुँचाता है |४०-४५॥ देवर्षि नारद जो ! महात्मा अगस्त्य ने शिला के बाएँ हाथ पर उदयाचल पर्वत से लाकर इस पर्वत को स्थापना की थी, जो