पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RĀMACARITA. देवेनभुवो विभुलद्रविणस्यच 'दानतः सुखाचके । अमुना हरिनागपदातिलब्धवहलप्रभावोऽसौ ॥ ४५ ॥ देवेनेत्यादि । अमुना सुग्रीव : देवेनभुव: इन्द्रभुवः वालिनो विपुलबलस्य च दानत छेदात् हरिनागम्य वानरनायकस्य पदे राज्येऽतिशयेन लन्धः पुनरस्खलनात् वहलप्रभावो येन तथा सन् सुखाचक्रे अनुकूलितः । अन्यत्र | अमुना देवेन राजाऽसौ सामन्तब्रजः हरयोऽश्वा नागा हस्तिनः पदातयः एभिर्लब्धो वहलः प्रभावो येन स ताटकभुवो भूमेर्विपुलम्य धनस्य च दानतस्त्यागात् अनुकूलितः ॥ ४५ ॥ अथ तरसाशिवराजेनास्य हितान्वेषिणाज्ञया भर्तुः । आशुगजेन वलवता वाजिवरख्यातधाम्ना च ॥ ४६॥ खरगुरुचारण विक्रमदौर्ण महेन्द्रेण केशरिसुतेन । उद[ल]ङ्घि महातटिनौ शोभान्वौतेन दुस्तरमहोर्मिः ॥ ४७॥ युग्मम् | 33 अथेत्यादि । अग्रिमचोकेन सह कुलकमतस्तत्रैव योजयिष्यते । खरेत्यादिपूर्व्वश्लोकेन समं कुलकं । अथानन्तरं केशरिणो वानरवरस्य पुत्रेण क्षेत्रजेनाशगात् पवनात् जातेन हनूमता तरसाशिनां रक्षमां वरान् श्रेष्ठान् अज्ञता क्षिप्ता। भर्त्तुः सुग्रीवस्याजया अस्य राघवस्य हितान्वेषिणा प्रियान्वेषिणा बलवता महाबलेन वाजिवरख्यातधामा पक्षिशेखरेण संपातिमा इयं सा समुद्रपारेऽशोकवनिकाचैव मा सौता प्रतिवसतीति ख्यातं (नं) कथितं धाम स्थानं यस्य खरो दु:महो गुरुमहान् चारश्चरणभवो विक्रमो विमईस्तेन विदीर्णो विदारितो महेन्द्रनामा पर्व्वतो येन । भया(भा) दोप्या अन्वीतेन यदा उद्गमाद्भातुं दूतेन तटिनीशो महाजलनिधिः दुस्तरमहोर्खिः उदल । अन्यत्र तरसाबलेन शिवराजेन शिवराजनाम्ना महाप्रतीहारेण राष्ट्रकूटमाणिक्येन अस्य रामपालस्य भर्त्तुराज्ञया हितैषिणः आशीघ्र गजेन बलवता सैन्यवता तुरङ्गपुङ्गवैः ख्यातं शौर्थं चस्य । खरगुः तौक्ष्ण- रश्मिस्तस्येव रुग् दौप्तिर्यस्व सूर्य्यवतेजस्विनेत्यर्थः ॥ रणो युद्धं तत्रत्य विक्रमेण दोर्ष: भीतः इन्द्रो यस्मात् केशरिकिशोरसदृशेन शोभान्चौतेन पञ्चाङ्गप्रसादालङ्कारेण महातटिनी गङ्गा लंघिता ॥ ४७ ॥ आपन्नभौमरक्षा विषयग्रामाकुलत्वदुस्था था | चस्तानुस्मृतावसुमत्यमुना सौतेनतेजसाभाजि ॥ ४८ ॥ आपन इत्यादि । अमुना हनूमता इनतेजसा सूर्य्यतेज हव तेजो यस्य । अनुसृतौ सत्यां अनुसारेण सौता आपनभोमरक्षा प्राप्तानि भौमानि रक्षांसियां ापना भौमानि रक्षांसि या वा । अतएव प्रस्ता (दस्ता) रूपादिविषयग्रामाकुलतया दुस्खा असु (शु) मतो जीवितमात्रशेषा अभाजि सेवाञ्जलिना बोधिता । १ 'Text has दतः । २ Text has उदयि माहातटियो ।