पृष्ठम्:रामचरितम् - सन्ध्याकरनन्दी.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

SANDILYAKARA NANDI भुज्यमानभूमित्वात् विफलौ धत् । उपगता इष्टतमा मित्राणि मातृवन्धवो यम्य, मसुतः, धाम शौय्यं शून्यं मिथ्या कलितवान् ॥ ४० ॥ अपि चेष्टया विमुक्तः क्षमया गुरुमन्युदहनदीप्तोऽयं (सं) । अवनीपतितां तनुमपि न तदा सम्भावयामास ॥ ४१ ॥ अपौत्यादि । अपि समुच्चये म राघवः गुरुमन्युवह्निदीप्तः चमया सहिष्णुतया चेष्टया मह विमुक्तः निश्चेष्टो मूर्च्छितः मन् अवनीपतितां तनुं देहं न सम्भावितवान् । अन्यत्र अपि समुच्चये क्षमया भूम्या दृष्टया विमुकः अवनपतितां पृथ्वोपतितां तनुं अल्पमपि न सम्भावितवान् ॥ ७९ ॥ सख्या सह विपदुदये न विनयविधिना हुनुना यत्नात् । कृतपरमोहापोहोऽलब्ध स्थिरसम्बिदुत्थानम् ॥ ४२ ॥ मख्येत्यादि । राघवः सूनुना कनिष्टभ्रात्रा सख्या द्वितीयेन यत्नतः पानीयसेचनव्यजनादिना कृतः परस्यातिशयस्य मोहम्य अपोहः खण्डनं यस्य अतः स्थिरसम्बित् स्थिरचेतनः उत्थानं अलब्ध लब्धवान् उत्थित इत्यर्थः । अन्यत्र | सख्या अमात्येन सूनुना सुतेन च सह कृतौ परभौ महान्तौ ऊहापौहौ ददं कर्त्तव्यं इदं न कर्त्तव्यम् इत्यादिकौ येन स्थिरतत स्थिरसम्वित् (तः) कृतनिश्चयः उत्थानं उद्यमं लद्धवान् ॥ ४२ ॥ विविधविशालव्यालाटविकाकीर्णावनिर्वहव्वभृत् । इष्टार्थाभिनिविष्टेन ततस्तेनाटि कष्टेन ॥ ४३ ॥ विविधेत्यादि । तेन इष्टा प्रिया सौता तदर्थाभिनिविष्टेन अवनिः विविधा विशाला व्याला हिंस्र पसर्पराक्षमादयो यस्यां तयाटविकया आकर्ण बहुपता [i]टिं पटता | अन्यत्र | रामपाले(न] सामन्तचक्रं प्रणिनीषुषा पृथ्वी पर्खटिता । तत्र व्याला आग्रहारिका वैषयिका विकटवयसामन्ता: उर्वोटद्राजा | इष्टार्थोऽभिलषितार्थः ॥ ४३ ॥ अन्वयभवनं सहसामन्तव्रजमभ्युपेतसाहाय्यं । अनुमेने स महादो रवितनयं मित्रभावमापन्नम् ॥ ४४ ॥ अन्वय इत्यादि । म महादोर्महावाहुः रवितनयं सुग्रीवं सहमां बलानां अन्वयभवनं कुल ग्टह अन्त (स्त) त्रजं समोपमागतं मित्रभावाम्यर्थनया प्रपन्नमनुमेने | अन्यत्र मह मम्वद्धार्थं सामन्तत्रजं वक्ष्यमाणनायकं अन्वयस्वाभ्युदयस्य भवनं श्रवितनयं गूढ़ (ढ़ा) नीति मित्रकोटिप्रविष्टं स रामपालोऽनुमेने ॥ ४४ ॥ १ Seems superfluous.