पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः आसीत् तदा अमेरिकाकार्ये यदा स्वामी अनेन क्रमेण व्यस्त इौंग्लन्डवासिनां शिष्याणां आह्वानानि पौन:पुन्येन समागतानि । इंग्लन्डे कर्षितभूमौ सम्प्रति बीजवपनस्य समय उपस्थितः । सोऽपि सन्नद्धोऽभवत् । पूर्वप्रबन्धानुसारं स्वामी सारदानन्दस्तस्य साहाय्य- माचरितु भारतवर्षात् प्रातिष्ठत । १८६६ ई० वर्षस्य एप्रिलमासस्य १ तारिकायां स लन्दनेऽवातरत | स्वाम्यपि एप्रिलमासस्य १५ तारिकायां न्यूयार्कतः इंग्लन्डं प्राचलत् । किन्तु निर्गमनात् पूर्वम् अमेरिकाया यन्त्रं वेगेन चालयित्वा ततः प्रस्थितः । -*०*- २२४ नन्दस्वामिन उद्योगेन प्रस्तुतोऽभूत् । संयुक्तराष्ट्रस्य उत्तर-पश्चिम भागे 'पोर्टलन्ड - वेदान्त-सोसाइटी' द्वारा '१२० एकड' मितारण्यान्तराले साधनभजनोपयोगी इतर एक आश्रमोऽपि स्थापितः । इतोऽपि अधिकाः कतिचन क्षुद्रा महान्तश्च भजनाश्रमाः सन्ति। अनेनैव विधिना अमेरिकाया विभिन्नस्थानेषु स्वामिनः परिकल्पना साकारा संवृत्ता । .