पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ लन्दनमुपेत्य स्वामि सारदानन्दं विलोक्य विवेकानन्दः सुतरां मुमुदे । उभावपि मिस्टर-स्टार्डी-भवने समवस्थाय प्रचारकार्यमार भेताम् । सहैव स्वामिसारदानन्दस्य प्रचारकरूपेण प्रस्तुतीकरणमपि स्वामिनोऽन्यत् कार्यमवर्तत । स सतीर्थ्याय विविधशैलीभिः शिक्षां प्रादात् । विशिष्टैर्निजभित्रैः सह तस्य परिचयम् अकारयत् । मईमासप्रथम सप्ताहादेव नियतरूपेण ज्ञानयोगस्य कक्षा प्रक्रान्ता | पुनश्च सः ‘पिकाडिली-पिक्चर-गैलरी,' 'प्रिन्सेप हाल्' इत्यत्र विविधा - स्वालोचनासभासु, शिक्षाप्रतिष्ठानेषु, एनी बेसेन्ट-भवने तथान्येष्वनेक- स्थानेषु च भाषणान्यकरोत् । इङ्गलन्डस्य श्रोतॄणां विचारशीलतां प्रति स्वामिनो ध्यानमाकृष्टमभूत् । रक्षणशोलताऽपि तेष्वेका विशिष्टता आसीत् । स निजपूज्यप्रियतमगुरुदेवसम्बन्वेऽपि यत्र तत्र अभावत । --- संयुक्तराष्ट्र स्वामिना कतिचन श्रेष्ठा मनीषिणो मित्ररूपेण संप्राप्ताः । किन्तु आंगलानाम् बहुविधं दानं स्वामिनः कार्ये इतोऽप्यधिकं साह्यमा- तनोत् । लन्दन- निवाससमये स्वामिनः एवं पण्डितप्रवर मैक्समूलरस्य च समागम: एका महत्त्वपूर्ण घटना अस्ति। मैक्समूलर: पूर्वत एव श्रीरामकृष्णे श्रदधान आसीत् । स श्रीरामकृष्णं 'पूर्वाकाशे उदीयमानं नक्षत्रं तथा आधुनिकतमः अवतार : ' इति घोषितवानासीत् । केशव- चन्द्रसेनस्य सहसा धर्ममतपरिवर्तनस्य कारणमन्विष्यन् स श्रीराम- १५