पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८४ याज्ञवल्क्यस्मृतिः । [प्रायश्चित्ताध्यायः । चात्मनो गुणसाम्यावस्थायां विकारे चाहकारादावविशेषवान् विवेकानभिज्ञो भवति । तथानशनहुताशनाम्बुप्रवेशविषाशनादिपु विप्लववशात्कृतप्रयत्तो भवेत् । एवं नानाप्रकाराकार्यप्रवृत्तोऽविनी. तात्माऽसंयतात्मा असत्कार्याभिनिवेशयुक्तः : सन् तत्कृतकर्मजातेन. रागद्वेषाभ्यां मोहेन त्र वध्यते शरीरग्रहणद्वारेण ॥ १५४-१५५ ॥ (वी०मि०) एतत्सर्वविरोधिन उपायमाह- . आचार्योपासनं वेदशास्त्रार्थेषु विवकिता ॥ तत्कर्मणामनुष्ठानं सङ्गः सद्भिगिरः शुभाः ॥ १५६ ॥ ध्यालोकालम्भविगमः सर्वभुगात्मदर्शनम् ।। त्यागः परिग्रहाणां च जीर्णकापायधारणम् ।। १५७ ।। विषयेन्द्रियसंरोधस्तन्द्रालस्यविवर्जनम् ॥ शरीरपरिसंख्यानं प्रवृत्तिवघदर्शनम् ॥ १५८ ॥ नीरजस्तमता सत्यशुद्धिनिःस्पृहता शमः || एतैरुपायैः संशुद्धः (१)स हि योग्यमृती भवेत् ॥ १५९ ।। आचार्यस्याऽध्ययनार्थमुपासनं, तत्प्रयुक्ता च वेदार्थपु वेदान्ता. दिशास्त्रेषु च विवेकिता वेदशास्त्रेषु च विवेकिता, वेदशास्त्रोक्तं च प्राणायामादीनामनुष्टानं, सद्भिर्योगाभ्यासादिचतुर सङ्गः, शुभाः परानुढेजिका गिरः, स्त्रिया दर्शनस्पर्शनपरित्यागः, सर्वप्राणिना. मात्मतुल्यतया दर्शनं, परिग्रहाणां च दारपरिजनानां त्यागं मत्वा. ऽभिनिवेशत्यागहेतुभूतो विवेकः, पुरातनं गैरिकरक्तवस्त्रधारणं, न- त्यादिपु विषयेपु चक्षुरादेनिरिणं, तन्द्रा निद्रानुकारिणी प्रमीला, आलस्यमात्मध्यानादावनुत्लाहः,तयोर्विवर्जन,शरीरस्याऽस्थिरताम: लमूत्रादिपूर्णत्वेन परिसंख्यानं विवचनं, स्वर्गाद्यर्थप्रवृत्तिवघदर्शनं जन्ममरणप्रवन्धरूपदोपदर्शनं, नीरजस्तमता क्रोधमोहहेतुस्वपरधी. शून्यत्वं, सत्त्वस्य चित्तस्य प्राणायामादिमिः शुद्धिरकार्यवमुख्यं, निःस्पृहता विषयाणामनुपादेयत्वबुद्धिः, अनया प्रागुक्तया वन्धहे. तुताया निरासः, शम इन्द्रियसनिकऽपि विषयेऽनासङ्गः । पतैरुक्तः प्रागुक्तभमतादिविरोधिभिरुपायैः सम्यक शुद्धो निशेषतो. (१) सत्वयोग्य०-इति मु० पु० पाठः।