पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८८५ पसारितममतादिः सन् ल जीवात्मा योगी अध्यात्मनिरतोऽमृतो मोक्षभाग भवति । चकारेण सुतादीनां समुच्चयः ॥ १५६-१५९ ॥ (मिता० ) कथं पुनस्तस्य विसम्भो भवतीत्यत आह- . __ आचार्येत्यादि । विद्यार्थमाचार्यसेवा । वेदान्तार्थेषु पातालला. दियोगशास्त्रार्थेषु च विवेकित्वम् । तत्प्रतिपादितध्यानकर्मणामनुष्ठा. नम् । सत्पुरुषसङ्गः । प्रियहितवचनत्वम् । ललनालोकनालम्भयोः परित्यागः। सर्वभूतेष्वात्मवदर्शनं समत्वदर्शनम् । परिग्रहाणां च 'पुत्रक्षेत्रकलत्रादीनां त्यागः। जीर्णकाषायधारणम् । तथा शब्दस्प. दिविषयेषु श्रोत्रादीन्द्रियाणां प्रवृत्तिनिरोधः । तन्द्रा निद्रानुका. 'रिणी, आलस्यमनुत्साह, तयोर्विशेषेण त्यागः। शरीरस्य परिसं- ख्यानमस्थिराशुचित्वादिदोषानुसन्धानम् । तथा संकलगमनादिषु सूक्ष्मप्राणिवधादिदोषपरामर्शः। तथा रजस्तमोविधुरता । प्राणाया. मादिभिर्भावशुद्धिः । निःस्पृहता विषयेष्वनभिलाषः। शमो बाह्या. न्तःकरणसंयमः । एतैराचार्योपासनादिभिरुपायैः सम्यक् शुद्धः केव- लसत्त्वयुक्तो ब्रह्मोपासनेनाऽमृती भवेत् मुक्तो भवति ॥ १५६-१५९ ॥ (वीमि०) न केवलं चित्तशुद्धिममतात्यागादिमात्रेणाऽमृतं निष्पद्यते, किन्तु तत्त्वज्ञानादिकमप्यपेक्ष्यत इत्याह-- तत्वस्मृतेरुपस्थानात्सवयोगात्परिक्षयात् ।। · कर्मणां सन्निकर्षाच्च सतां योगः प्रवर्तते ॥ १६० ।। - तत्त्वस्मृतेरात्मतत्त्वश्रवणात, उपस्थानात् आत्ममननरूपध्या नरूपात् ,सत्वगुणोद्रेकजनिताद्योगादात्मदर्शनात् , कर्मणां पापपुण्या. नां परिक्षयात सर्वताभावेन क्षयात् , सन्निकर्षादविद्यारूपावरकविग- मात् सतां पुण्यवतां योगः परमात्मालयः प्रर्वतते जायते । चका- रेण ज्ञानस्य कर्मसमुच्चयो दर्शितः । तदुक्तं योगसंहितायाम्- . ज्ञानकर्मसमायोगात्परमाप्नोति पूरुषम् । . . इति दिक ॥ १६०॥ (मिता०) कथममृतत्वप्राप्तिरित्यत आह-

  • तत्त्वेति । आत्माख्यतत्त्वस्मृतरात्मनि निश्चलतयोपस्थानात्

सत्त्वशुद्धियोगात्केवलसत्त्वगुणयोगात्कर्मवीजानां परिक्षयात् सत्पु. रुषाणां च सम्बन्धात् आत्मयोगः प्रवर्तते ॥ १६०॥ . . ९९॥