पृष्ठम्:याज्ञवल्क्यस्मृतिः.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यतिधर्मप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ८८३ एवंवृत्तोऽविनीतात्मा वितथाभिनिवेशवान् ॥ : कर्मणा द्वेषमोहाभ्यामिच्छया चैव बध्यते ॥ १५५ ॥ कर्मणो यज्ञादेः फलमस्ति नास्ति वेति सन्दिग्धमतिरत एव विप्लुतो धर्मभ्रष्टोऽत एवऽसिद्धोऽकृतार्थः सन्नपि स आत्मा सि. द्धं कृतार्थमात्मानं मन्यते । तत्र हता-मम दारादयः सन्ति, अहं चै. षां प्रभुरित्येव वस्तुस्थितिरित्यापाततो हिताऽहितेष्वपरिणामाहि- तेषु सदा विपरीतमतिः इदमेव परमं प्रयोजनमिति । एवं शेये आ- न्मनि प्रकृती प्रधाने विकार अहङ्कारमहाभूतादौ अविशेषवान् विवेका. नभिज्ञः । तथा अनशनेऽनलप्रवेशे जलप्रपतने वा उद्यमी एवं. त्तः एतादृशविरुद्धव्यापारीतरवान् । अविनीतात्मा असंयतचित्तः वितथे परलोकासाधनत्वेन निष्फलमये नृत्यगीताद्याससङ्गेऽभिनिवेश आसगस्तद्वान् । कर्मणाऽनाशकवितथाभिनिवेशादिना द्वेषेण ना- शकाद्याचरणमूलभूतेन मोहेनं 'मम दारा' इत्यादिना इच्छया वि. तथाभिनिवेशमूलभूतया वध्यते संसारे यति एतत्सर्वमुमुक्षुणा वर्ज- नीयमिति तात्पर्यम् । हिशेन्दन विपरीतमतेर्दाढय दर्शितम् । 'क्षेये चेत्यादिचकारत्रयेण नैयायिकवेदान्तिपातजलासद्धानामविवोकनां प्रद. शनम् । चरमकारेण योषिद्धेतुविषयकरोगद्वेषसमुच्चयः । आद्य- स्यैवकारस्य 'इत्येव स्थिति'रिति व्युत्क्रमेणाऽन्वयः । चरम एवका- रो वध्यत इत्यत्रान्वितो मोक्षं व्यवच्छिनत्ति ॥ १५२-१५५॥ (मिता० ) उपासनविशेषविध्य(१)र्थ संसारस्य रूपं विवृण्वनाह- __ स इति। योऽसौ पूर्वोक्त आत्मा विप्लुतोऽहङ्कारदूषितः स सकल- कर्मसु फलमस्ति न वेति सन्दिग्धमतिर्भवति । तथाऽसिद्धोऽयकृ. तार्थोऽपि सिद्धमेव कृतार्थमात्मानं मन्यते ॥ १५२॥ (मिता०) किञ्च-. ___ ममेति । तस्य विप्लुतेर्मम कलत्रपुत्रप्रेण्यादयोऽहमेषामित्यतीव ममताकुलस्थितिर्भवति । तथा हिताहितकर कार्यप्रकरे स विप्लुत. मतिविपरीतमतिः सदा भवेत् ॥ १५३ ॥ . (मिता०) किञ्च- शेयझे इत्यादि । शेयं जानातीति शेयज्ञस्तस्मिन्नात्मनि । प्रकृती (१) सिध्यर्थे ।