पृष्ठम्:मनोहरकाव्यमाला.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १४५ ) अशेषमुक्तं तत्सर्वं क्षन्तव्यं मम यास्यतः ॥ ७२ ।। राजपत्नीति गर्वेण नाऽवज्ञयः स मे द्विजः । सर्वयत्नेन तोष्यः स्यात्स्वामी दैवतवच्छुभे ॥ ७३ ॥ राश्युवाच- अहमप्यत्र राजर्षे निपतिप्ये हुताशने । दुःखभारासहा देव सह यास्यामि वै त्वया ।। ७४॥ त्वया सह मम श्रेयो गमनं नाऽन्यथा भवेत् । सह स्वर्ग च नरकं त्वया भोक्ष्यामि मानद । श्रुत्वा राजा तदोवाच एवमस्तु पतिव्रते ॥ ७५ ॥ --:o: उपसंहारः। सूत उवाच- ततः कृत्वा चितां राजा आरोप्य तनयं स्वकम् । भार्यया सहितो राजा वद्धाञ्जलिपुटस्तदा ॥१॥ चिन्तयन्परमेशानी शताक्षीं जगदीश्वरीम् । पञ्चकोशांतरगतां पुच्छब्रह्मस्वरूपिणीम् ॥ २॥ रक्ताम्बरपरीधानां करुणारससागराम्। नानायुधधरामम्बां जगत्पालनतत्पराम् ॥ ३॥ तस्य चिन्तयमानस्य सर्वे देवाः सवासवाः । प्रमुखतः कृत्वा समाजग्मुस्त्वरान्विताः॥४॥ आगत्य सर्वे प्रोचुस्ते राजन्छणु महाप्रभो। अहं पितामहः साक्षाद्धर्मश्च भगवान् स्वयम् ॥५॥ साध्याः सविश्वे मरुतो लोकपालाः सचारणाः । नागाः सिद्धाः सगन्धर्वा रुद्राश्चैव तथाऽश्विनौ ॥६॥ एते चाऽन्येऽथ बहवो विश्वामित्रस्तथैव च । विखत्रयेण यो मैत्री कर्तुमिच्छति धर्मतः ॥ ७ ॥