पृष्ठम्:मनोहरकाव्यमाला.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १४६ ) विश्वामित्रः स तेऽभीष्टमाहर्तुं सम्यगिच्छति । धर्म उवाच- मा राजन् साहसं कार्षीर्घमोऽहं त्वामुपागतः ॥ ८॥ तितिक्षादमसत्त्वाद्यैस्त्वद्गणैः परितोषितः । इन्द्र उवाच- हरिश्चन्द्र महाभागप्राप्तः शक्रोऽस्मि तेऽन्तिकम् ॥ ६ ॥ त्वयाऽद्य भार्या पुत्रेण जिता लोकास्सनातनाः । प्रारोह त्रिदिवं राजन् भार्यापुत्रसमन्वितः ॥ १० ॥ सुदुष्प्रापं नरैरन्यर्जितमात्मीय कर्मभिः। सूत उवाच- ततोऽमृतमयं वर्षमपमृत्युविनाशनम् ॥ ११ ॥ इन्द्रःप्रासृजदाकाशाच्चितामध्ये गते शिशौ । पुष्पवृष्टिश्च महतीं दुंदुभिस्वन एव च ॥ १२ ॥ समुत्तस्थौ मृतः पुत्रो राशस्तस्य महात्मनः । सुकुमारतनुः स्वस्थः प्रसन्नः प्रीतमानसः॥ १३ ॥ ततो राजा हरिश्चन्द्रः परिष्वज्य सुतं तदा । सभार्यः स्वश्रियायुक्तो दिव्यमाल्याम्बरावृतः ॥ १४ ॥ स्वस्थः संपूर्णहृदयो मुदा परमया वृतः । बभूव तत्क्षणादिन्द्रो भूपं चैवमभाषत ॥१५॥ सभार्यस्त्वं सपुत्रश्च स्वर्लोकं सद्गतिं पराम् । समारोह महाभाग निजानां कर्मणां फलम् ॥ १६ ॥ हरिश्चन्द्र उवाच- देवराजाननुज्ञातः खामिनाश्वपचेन हि । अकृत्वा निष्कृति तस्य नारोक्ष्ये वै सुरालयम् ॥ १७ ॥ धर्म उवाच- तवैवं भाविनं क्लेशमवगम्याऽऽत्ममायया ।