पृष्ठम्:मनोहरकाव्यमाला.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( १४४ ) भविष्यसि पतिस्त्वं मे ह्यन्यस्मिञ्जन्मनि प्रभो । श्रुत्वा राजा तदा वाक्यं निपपात महीतले ॥ ६०॥ मृतस्य पुत्रस्य तदा चुचुम्ब दुःखितो मुखम् । राजोवाच- प्रिये न रोचते दीर्घ कालं क्लेशं मयाऽशितुम् ॥ ६१॥ नात्मायत्तोऽहं तन्वनि पश्य मे मंदभाग्यताम् । चांडालेनाऽननुज्ञातः प्रवेत्ये ज्वलनं यदि ॥ १२ ॥ चांडालदासतां यास्ये पुनरप्यन्यजन्मनि । नरकं च वरं प्राप्य खेदं प्राप्स्यामि दारुणम् ॥ ६३ ॥ तापं प्राप्स्यामि संप्राप्य महारौरवरौरवे । मग्नस्य दुःखजलधौ वरं प्राणैर्वियोजनम् ॥ ६४॥ एकोऽपि बालको योऽयमासीद्वंशकरः सुतः । मम दैवानुयोगेन मृतः सोऽपि बलीयसा ॥ ६५ ॥ कथं प्राणान्विमुञ्चामि परायत्तोऽस्मि दुर्गतः । तथापि दुःस्त्र बाहुल्यात्त्यक्ष्यामि तु निजां तनुम् ॥ ६६ ॥ त्रैकोक्यैनाऽस्ति तद्दुःख नाऽसिपत्रवने तथा । वैतरिण्यां कुतस्तद्वद्यादृशं पुत्रविप्लवं ॥ ६७ ॥ सोऽहं सुतशरीरेण दीप्यमाने हुताशने । निपतिष्यामि तन्वति क्षन्तव्यं तन्ममाऽधुना ॥ ६८॥ न वक्तव्यं त्वया किंचिदतः कमललोचने । ममवाक्यं च तन्वति निवोधाऽऽहतमानसा ॥६६॥ अनुज्ञाताऽथ गच्छ त्वं विप्रवेश्म शुचिस्मिते । यदि दत्तं यदि हुतं गुरवो यदि तोषिताः ॥ ७० ॥ संगमः परलोके मे निजपुत्रेण चेत्त्वया । इह लोके कुतस्त्वेतद् भविष्यति समीप्सितम् ॥ ७१ ॥ यन्मया हसता किञ्चिद् रहसि त्वां शुचिस्मिते ।