पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. १.
श्रीरङ्गरामानुजभाष्ययुक्ता

अन्वेषमाणाः, जिज्ञासमाना इत्यर्थः । हृशब्दः प्रसिद्धौ । वैशब्दोऽवधारणे । एषः अस्मद्बुद्धौ विपिरवर्तभानः परब्रह्मवित्त्वेन प्रसिद्धः पिप्पलाद एव षण्णामस्माकं जिज्ञासितानर्थान्वक्तुं प्रभवतीति पर्यालोच्य समिद्भाराद्युपायनपाणयः शास्रदृष्टेन विधिना पूज्यं पिप्पलादमुपगता इत्यर्थः ॥ १ ॥

प्रश्रोपनिषद्भाष्यटिप्पणी
श्रीनिवासं परं ब्रह्म प्रणिपत्य प्रणीयते ।
रङ्गरामानुजमुनिप्रश्रभाष्यस्य टिप्पणी ॥

मूले सुकेशा चेति । छान्दसो नकारान्तः शब्द इति भाति । अत्र आद्येषु चतुर्षु नामसु षकारः श्रूयते । न त्वन्त्ययोर्द्वयोः । तत्र भावोऽन्वेषणीयः । सुकेशप्रभृतयश्चत्वारः एकत्र वासादिना कारणविशेषेण प्रथमं परस्परसमागमं प्राप्य परब्रह्मान्वेषणमकुर्वन् । एषामविदितमन्यत्र क्वापि स्थितो भार्गवो वैदर्भिः स्वयमेकाकी तादृशमेव परब्रह्मावेषणं कुर्वन्नासीत् । एवं अस्याप्यविदितं क्वापि स्थितः कबन्धी कात्यायन । एतद्व्यञ्जनाय इह नामद्वये चकाराप्रयोग । अथ कदाचित् पृथक्पृथगातयोरनयोर्द्धयोः तेषां चतुर्णा च कथमपि मिथः समागमोऽभवत् । तदुच्यते -- ते हैते इति । सूर्यायणस्येति । “ सूर्यस्यापत्यं सौर्यः तस्यापत्यं सौयायणि"रित्यन्यत्र । अश्वलायनस्येति । आश्वलस्येति लिखितकोशपाठः । अश्वलस्थापत्यमिति भाष्यान्तरे । वेदैकशरणा इति । वेदेतरप्रमाणे सर्वथा आदरशून्या इत्यर्थः । एतेन तत्प्रमेयेऽयनादरः फलितः । वेदप्रमेये तु आदरातिशयः कण्ठत उच्यत इत्यभिप्रेत्य व्याचष्टे-ब्रह्मनिष्ठा इति । स्वरूपतत्परता पूर्वमुक्ता । अर्थतस्तत्परता इहोच्यत इति भावः । एवं विशेषणद्वयेऽपि ब्रह्म शब्दस्य वेदवाचित्वं कृत्वा व्याख्याय पुन: वेदातिरिक्तविभिन्नार्थवोचित्त्वं कृत्वा व्याचष्टे-द्वेति। ब्रह्म ज्ञेयतया परं प्रधानं येषां ते ब्रह्मपराः । तदाह-ब्रह्मज्ञानेति । एवमस्मिन् विशेषणे परतत्ववाची ब्रह्मशब्दः । अनन्तरविशेषणे तु तपोवाचीत्यभिप्रेत्याह-तपोनिष्ठा इति । एवं ब्रह्मशब्दस्यार्थत्रयमुक्तम्-वेदः परतत्वं तप इति ! अन्न •प्रमाणमाह-वेद इति । परपदं व्याचष्टे-उत्कृष्टमिति । किमर्थमुत्कृष्टत्वमिहोच्यत इत्यत्राह-निरुपचरितमिति । ब्रह्म शब्दो हि उपचारेण प्रकृतौ जीवात्मनि अन्यत्र च प्रयुज्यते । तादृशौपचारिकार्थान्तरव्यावर्तनाय परत्वमुक्तमिति भावः । ब्रह्मपदं श्रीभाष्यानुसारेण विवृणोति-स्वरूपत इति । मुख्यान्वेषणस्य परब्रह्मणि असम्भवात् विक्षितमर्थमाह-जिज्ञासमाना इति । अत्र 'ते हैते अन्वेषमाणाः एष ह वै...वक्ष्यतीति पर्यालोच्य भगवन्तं पिप्पलादमुपसन्नाः' इत्येकवाक्यता भाष्यकृताममिमतेति प्रतीयते । तत्र 'ते ह समित्पाणयः' इति पुनः कर्तृपदोपादानस्य कथमुपपतिरिति विमर्शनीयम् । “ स तपस्तप्त्वा स मिथुनमुत्पादयते' इत्यनुपदयुत्तरत्र यथा कृन्तक्रियान्वयितया पृथकर्तृश्रवणं तथेह अन्वेषमाणा इति शानजन्तक्रियान्वयितया पृथक् श्रवणमुपपद्यत इति न एकवाक्यत्वे विरोध इति मेनिर इव । भाष्यान्तरे तु “ इत्येवं तदन्वेषणं कुर्वन्त तदधिगमाय ' एष ह वै तत्सर्वं वक्ष्यति'इत्याचार्यमुपजग्मुः । कथम् । ते ह समित्पाणयः ।