सामग्री पर जाएँ

पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. २.]
प्रश्नोपनिषत्

समिद्भारगृहीतहस्ताः सन्तो भगवन्तं पूजावन्तं पिप्पलादमाचार्यमुपसन्नाः उपजम्मुः” इति वक्ष्यतीत्यन्तमध्याहारेण वाक्यं परिसमाप्य तत्र विशेषप्रतिपादनाय प्रवृत्तं वाक्यान्तरं तेह समित्पाणय इत्यादीत्यभ्युपगतमिति प्रतीयते । अन्वेषमाणा आसन्निति प्रथमं वाक्यम् । एवं क्लिश्यमानानमान् प्रति दयमानमनाः कश्चित् ऋषिं पिप्पलादं निर्दिश्य “एष ह वै तत्सर्वं वक्ष्यति इति जगादेत्यपरं वाक्यम् । तच्छूवणानन्तरं तेषां प्रवृत्तिप्रतिपादकमन्यद् वाक्यै 'ते ह समित्पाणय इत्यादोत्येवमपि भवितुमर्हति । अत्र श्रुतिवचने सर्वत्र हकारः ‘कर्णपरम्परया सर्वमिदं श्रुतम् न तु साक्षाद् दृष्टमिति ज्ञापनद्वारा चिरप्रसिद्धिं गमयति | अन्यत्र अधारणादिपरः । उपसन्ना इति । उपसेदुरित्यादिरूपेण आख्यानं न प्रयुज्यते । अपितुं कृदन्तम् । अयमाशयः।आख्यातप्रयोगे, उपसदने विवक्षितो विशेषो न लभ्येत । कृत्प्रयोगे तु बभूवुरित्याख्याताध्याहारेण अवधारणप्रतीतेः “उपसन्ना बभूवुः । न तु प्रसक्ताऽपि उपसदनस्य निवृत्तिः निष्पन्ना' इति विशेषो गम्यते । तेन च “ आगतान् सुकेशप्रभृतीन् पिप्पलादो झटिति न परिजग्राह । अपि तु सन्ति हि बहवो ब्रह्मवित्तराः । तानुपगम्य पृच्छत । अहमज्ञः अल्पज्ञो वा । मुञ्चत माम् इति तान् निवर्तयन्नुवाच । ते पुनः विशिष्टाचार्यालाभेन चिरानुभूतमहाक्लेशाः आप्तानां मुखात् पिप्पलादं ज्ञात्वा तस्मिन् सुदृढामाचार्यत्वप्रतिपतिं कृत्वा उपसृत्य * अनन्यशरणा क्यं परिग्राह्या दया कर्तव्या' इति दीनदीनं प्रार्थयामासुः' इत्यमर्थो व्यज्यत इति ।

तान् ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ1 यथाकामं प्रश्नान् पृच्छत यदि विज्ञास्याम सर्वं ह वो वक्ष्याम इति ॥ २ ॥

तान् ह स ऋषिरुवाचेति ॥ स्पष्टोर्थः । भूय एवेति । यद्यपि पूर्वमेव भवन्तस्तपोब्रह्मचर्यादिसंपन्नाः तथापि ब्रह्मविद्याग्रहणार्थं पुनरपि शरीरशोषणादिलक्षणतपसा येोषित्मरणकीर्तनकेलिप्रेक्षणगुह्मभाषणसङ्कल्पाध्यवसायक्रियानिर्वृतलक्षणाष्टविधमैथुनवर्जनरूपब्रह्मचर्येण, आस्तिक्यबुद्धिलक्षणया श्रद्धया युक्ताः सन्तः2 संवत्सरमात्रं वासं करिष्यथ3, वासं कुर्वन्विति यावत् । ततः स्वेच्छानुरोधेन प्रष्टव्यानर्थान् पृच्छत । यदि तानर्थान् वयं ज्ञास्यामः तदा वञ्चन4 मन्तरेण सर्वं वक्ष्यामः । यद्यस्मासु ज्ञातृत्व5 निश्चयाभावेन संवत्सरब्रह्मचर्यतपआदौ बहुक्लेशः साध्ये प्रवृत्तिर्न युष्मभ्यं रोचते6 तदा सुखेन गन्तव्यमिति भावः । ततश्च गुरॊः


1. आ. ना. वत्स्यथ । 2, प्र. 'सन्तः' नास्ति । 3. पू. 'वासं करिष्यथ' नास्ति । 4. प्र. वञ्चनाम् । 5. य ज्ञातृत्वन्येति पृथक् पदम् । 6. आ. ’रॊचॆत’ । ना. ’रॊचेत’ ।