सामग्री पर जाएँ

पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२]
४. ६
श्रीरङ्गरामानुजभाष्ययुक्ता

अस्मिन्नवसर इति । यदा मनो ब्रह्मा प्रति नीयमानं भवति न तु नीतमेव तदेत्यर्थः । महिमा ऐश्वर्यमेित्यभिप्रेत्याह-करितुरगादीति । करिकलभादीतेि क्वचित पाठ । तमेवार्थमिति । यच्छब्दश्रवणात् यद् दृष्टमित्यनूद्य तच्छब्दमध्याहृत्य तदनुपश्यतीति योजनीयम् । अर्थस्यात्र अश्रवणात् सामान्ये नपुंसकम् । विशेषापेक्षायां तु उत्तरवाक्यानुरोधेन अर्थ एव विशेष्यतयाऽनुसन्धेय इति भाव ! एवमत्र भाष्ये । एष देवो महिमानमनुभवति दृष्टमनुपश्यति श्रुतमनुश्श्रृणोति' इत्येवं दृष्टानुदर्शनादितुल्यतया तद्व्यतिरिक्तो महिमानुभवः प्रति पाद्यतया दर्शितः । अन्यथाऽपि तु योजना शक्या । महिमानं महत् जागरावस्थायामविद्यमानं वैभवं शरीरान्तरेन्द्रियान्तरपरिग्रहानुगुणं अनुभवति प्राप्नोति, यत येन महिम्ना अथवा यस्मात् कारणात् दृष्टंदृष्टमनुपश्यति श्रुतं श्रुतमनुश्रृणोति...सरह्वं पश्यति सर्वः पश्यति' इतीति बोध्यम् देशान्तरेष्विति । अधिकरणमेव करणतया विवक्षितमित्याशयः । प्रत्यहमिति । प्रतिशब्दार्थः अनुभवे साक्षादन्वयविरहान् अहराऽन्वेतीति भावः । इदमुपलक्षणं प्रकारान्तरस्यापि । देशदिगन्तरैः प्रतिबद्धतया नियतसम्बन्धवत्वेन अनुभूतमित्येवमादिप्रकारेणापि हि शक्यं योजयितुमिति ।

स यदा तेजसाऽभिभूतो भवति । अत्रैष देवः स्वप्नान्न पश्य त्यथ यदेतस्मिन् शरीर एतत्सुखं भवति ।। ६ ।।

एतिस्मन्नन्तरे “सता सोम्य तदा संपन्नो भवति, तेजसा हि तदा संपन्नो भवती' ति श्रुत्युक्तरीत्या परप्रकाशकतया तेजश्शब्दितेन परमात्मना अभिभूते. भवति संपन्नेो भवति । संपरिष्वक्तो भवतीति यावत् । तदा स्वाप्नान्पदार्थान् न पश्यतीत्यर्थः । ततश्च “कतर एष स्वान्पश्यती' ति प्रश्नस्य ब्रह्मसंपत्तिविरह दशायां मनेोमात्रपरिशेषसमये स्वप्नान्पदार्थान्पश्यतीत्युत्तरभुक्तं भवति । कस्यैतत्सुखं भवतीत्यस्योत्तरमाह- अथ यदेतस्मिन्निति । यदेतत्सुखं2 भवति तदेतस्मिन् शरीरे सत्येव भवतीत्यर्थः । शरीरमेव वैषयिकसुखहेतुरियुक्तं भवति । “अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः” इति श्रुतेरिति द्रष्टव्यम् ॥ ६ ॥

स यदा तेजसाऽभिभूतो भवतीति अनुवादरूपत्वेऽपि वस्तुत उपदेश एवामित्यभिप्रेत्य उपदेश्यमर्थमाह-- एतस्मिन्नन्तर इति । स्वप्नार्थानुभवे प्रवर्तमान इत्यर्थः । रीत्येति । सम्पन्नो भवतीत्यत्रान्वयः । तेजश्शब्दितत्वे हेतुः परप्रकाशकतयेति । “ तस्य भासा सर्वमिदं बिभाति' । ननु कीदृशः स्वप्नान् पश्यतीत्येष पृष्टम् न तु कीदृशः सन् न पश्यतीत्यपि ।


1. आ. ना. यदेतस्मिन् शरीरे सुखं भवति । ईशाद्यष्टोत्तरशतोपनिषत्सु सदैतस्मिन् शारीरे एतत्सुखं भवतीति दृश्यते । प्र. तदेतस्मिन्...'; शाङ्करमूले च । 2. छा, ना. पू. “यत्सुखम् ।