पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४...] पश्नोपनिषत् ४३ अत इदमसङ्ग तमित्याशङ्कयाह-ततश्चेति । ब्रह्मसम्पत्तिविरहेति : तत्प्रश्नोत्तरशेषतथैव इदमप्युक्तमिति नासातिरिति भावः । यदेतदिति । यच्छब्दो व्यवहितेनापि एतत्सुखमित्यनेन सम्बध्यते । तदाक्षिप्तस्तच्छब्दस्तु 'एतस्मिन् शरोरे 'इत्येनेनेति भावः । तदेतस्मिन् ' इति पाठे तु तच्छब्दसार्थक्याय उत्तरत्र यच्छब्दोऽध्याहर्तव्य इति भावः । अत्रेदं बोध्यम् । कस्यैतत्सुखं भवतीति प्रश्नस्यायमर्थः : मनागपि स्वानानुभवं विना निद्रया जायमानं सुखं कस्य कीदृशस्य भवतीति । अत्रोत्तरं स यदा तेजसेत्यादि । जीवस्य परमात्मसम्पत्तेः प्राक् मनोमात्र व्याप्रियते । तदा तदवस्थस्य जीवस्य स्वप्नदर्शनम् । यदा तु स तेन सम्पद्यते तदा मनसोऽप्युपरमात् स्वप्नदर्शनमत्यन्तं निवर्तते । ईदृशावस्थस्य निशसुखं भवतीत्याचार्यस्याशयः । स्वप्ने यदुक्तं महिमानमनुभवतीति । तद्व्यतिरेकानपत्त्यर्थम् एतस्मिन् शरीर इति । शरीरान्तरपरिग्रहेण स्वप्नविषयानुभवः । अस्मिन्नेव शरीरे इदं सुखमिति । तथा य स यदा तेजसेत्यादेः पूर्वप्रश्नोत्तरशेषतां विनाऽपि योजने सुकरमिति । स यथा सोम्य वयांसि वासोवृक्षं संप्रतिष्ठन्ते । एवं ह वै तत्सर्वं पर आत्मनि संप्रतिष्ठते ॥ ७ ॥ कस्मिन् सर्वे प्रतिष्ठिता भवन्तीत्यस्यात्तरमाह- स यथा सोम्येति । वयांसि पक्षिणः, वासोवृक्षं निवासवृक्षं प्रति संपतिष्ठन्ते । सः दृष्टानो यथा, एवं परमात्मनि सर्व प्रतिष्ठितं भवतीत्यर्थः ॥ ७ ॥ वासोवृक्षमिति । षष्ठयर्थे प्रथमा तस्या अलुक् च व्यत्ययेन । वृक्षमिति कर्मप्रश्न- नीययोगे द्वितीयेत्यभिप्रेत्य अपेक्षितं कर्मप्रवचनीयमव्याहरति प्रतीति । वृक्षं प्रति वृक्षे इत्यर्थः । पर आत्मनीति दार्ष्टान्तिकानुरोधात् । तत् सर्वमिति । जीवात्मपर्यन्तं सर्वमित्यर्थ । वृक्षे सम्प्रतिष्ठितान्यपि वयांसि न परस्परमयन्तं संश्लिष्टानि भवन्ति । अतस्तत्र बहुवचनम् । इन्द्रियादिकं तु अविभागमेकीभवति । अत एकवचनमिति विभाव्यम् । पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाकाश्श्चाकाशमात्रा च चक्षुश्व द्रष्टव्यश्च थोत्रश्च श्रोतव्यञ्च घ्राणच घातव्यञ्च रसश्च' रसयितव्यश्च त्वच स्पर्शयितव्यञ्च वाक्च वक्तव्यञ्च हस्तौ चादातव्यञ्चोपस्थश्चानन्द- यितव्यञ्च वायुश्च विसर्जयितव्यश्च पादौ च गन्तव्यश्च मनश्च 1.आ. ना. 'रसनं च। ३.आ. ना. क्रमविपर्यासो दृश्यते-हम्तादा- खव्यानन्तरं पाहगन्तव्यपाठ इति ।