पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४. ५.]
४१
प्रश्नोपनिषत्

अत्र यद्यपि “एवमेवेमा:सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ती' ति ब्रह्मगमनं जीवस्यैव श्रूयते न मनसः, तथाऽपि मनसः पुरीतद्गमनश्रवणात् तद्गत ब्रह्मगमयितृत्वोक्तिरुपपद्यत इति द्रष्टव्यम् ॥ ३ ॥ ४ ॥

उपासनार्थमिति । कानि जाग्रतीति पृष्टे प्राण। जाग्रतित्येवोत्तरं देयम् । तद्विहाय प्राणामय इत्यग्नित्वादिकं परिकल्प्य यदुत्तरं दीयते तदुपासनार्थत्वस्यापि विरहे निष्फलं स्यादिति भावः ।

हेतुत्वादुदान इति । हेतुत्वादिष्टफलमिति युक्तं भवितुम् । यथास्थिते तु 'लोकान्तरोन्नयनहेतुत्वादुदानशब्दवाच्यो भवति । अतः स लोकान्तरप्राप्येष्ठफलरूप ' इत्युपस्कृत्य योज्यम् । इष्टफलं इष्टं इच्छाविषयीभूतं फलम् । यद्वा इष्टस्य कृतस्य यज्ञस्य फलम् ।

अत्रैष देवः स्वप्ने महिमानमनुभवति । यद् दृष्टंदृष्टमनुपश्यति श्रुतंश्रुतमेवार्थमनुशृणोति देशदिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति दृष्टश्चादृष्टञ्च श्रुतञ्चाश्रुतश्चानुभूतश्चाननुभूतश्च सच्चासच्च सर्वं पश्यति सर्वः पश्यति ।। ५ ।।

“कतर एष देवः स्वप्नान् पश्यती” त्यस्योत्तरमाह--अत्रैष देव इति । अत्र अस्मिन्नवसरे एष देवः जीवः स्वप्ने करितुरगादि1 लक्षणं महिमानमनुभवति पश्यति । जागरे प्राग्यदृष्टं तमेवार्थं अनुपश्यति अनु पश्चात्पश्यति अनुभवति । दृष्टंदृष्टं भूये दृष्टमित्यर्थः । श्रुतमेवार्थमनुश्रुणोति । देशान्तरेषु दिगन्तरेषु2 प्रत्यहमनुभूतमर्थ पुनः3 पुनरनुभवति । दृष्टं4 ‘श्रुतमेवानुभवतीत्ययमपि नियमो नास्ति । कदाचित्पूर्वाननुभूतमपि स्वशरीरच्छेदनादिकमनुभवति । विद्यमानञ्चानुभवति अविद्यमानञ्चानुभवति । सर्वः पश्यति5 सर्व:सन् पश्यति । द्रष्टा श्रोता घ्राता गन्ता वक्ता चेत्यादिसर्वरूप:सन् पश्यतीत्यर्थः । तदानीं जागरीयबाह्यज्ञानकर्मेन्द्रियाणामुपरतव्यापारत्वेऽपि स्वाप्निकैरीश्वरसृष्टैः शरीरेन्द्रियैर्धृत्वादिमान् सन्ननुभवतीति भावः ॥ ५ ॥


1. आ. 'करिकलभादि'... । 2. प्र. 'दिगन्तरेषु' नास्ति । ’, आ. ना. 'पुनः' इति नास्ति । 4. आ. ना. 'श्रुतं' नास्ति । 5. आ. ना. इदं भूलवाक्यं एतद् व्याख्यानं च नास्ति ।