पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [द्वितीयोऽङ्कः महामोह: – (संक्रोधम्) आः किमेवमेतिमुग्धौ शान्तेरपि बि- भ्यतः । कामादिषु प्रतिपक्षेषु कुतोऽस्याः संभवः । तथाहि — धाता विश्वविसृष्टिमात्रनिरतो देवोऽपि गौरीभुजा- श्लेषानन्दविघूर्णमाननयनो दक्षाध्वरध्वंसनः । ८० दैत्यारिः कमलाकपोलमकरीलेखाङ्कितोरःस्थलः शेतेऽब्धावितरेषु जन्तुषु पुनः का नाम शान्तेः कथा ॥ २८ ॥ ( पुरुषं प्रति वदति ।) जाल्म, गच्छ । कामं सत्वरमुपेत्यादेशमस्माकं प्रतिपादय । तथा दुराशयो धर्म इत्यस्माभिरवगतम् । तदस्मिन्मुहूर्तमपि न वि- श्वसितव्यम् । दृढं बद्ध्वा धारयितव्य इति । पुरुषः – *जं देवो आणवेदि । - ( इति निष्कान्तः ।)

  • यद्देव आज्ञापयति ।

प्रमाणम् । भवानेव जानातीत्यर्थः । सक्रोधमिलारभ्य प्रतिपादयेत्यन्तं स्पष्टम् । अहो आश्चर्यम् । मदमानौ शान्तेरपि बिभ्यतः । यतस्तयोर्विद्यमानयोः शान्तेः कुतोऽवसरः । अतीव मुग्धौ खप्रभावमपि नावगच्छत इति ॥ – दुराशय इत्यादि । धर्मः कामं विहाय दुराशयो भवतीत्यस्माभिरवगतम् । तस्मिन्धर्मे विश्वासो न कार्यः । यद्देव आज्ञापयतीति । निष्क्रान्त इत्यारभ्य पर्याप्तावि- धमित्यन्तं सुबोधम् । अतिमुग्धा अतिशयेन मूढाः । शान्ते: इन्द्रियोपशमात् । अस्याः शान्तेरिन्द्रियोपशमाभाव प्रकटयति – धातेति । धाता ब्रह्मा विश्वस्य वि शिष्टा या सृष्टिस्तन्मात्रे निरतस्तत्परः । दक्षाध्वरध्वंसनो दक्षयज्ञविनाशको देवोऽपि त्रिनेत्रोऽपि गौरीभुजाभ्यामाक्षेप आलिङ्गनं तेन जनितो य आनन्दः सुखं तेन विशेषेण धूर्णमानानि नयनानि यस्य सः । एतेन कामक्रोधासक्तो महादेव इति समसूचि । दैत्यारिर्विष्णुः कमलाया लक्ष्म्याः कपोलं गण्डस्थलं तस्मिन्मकरीलेखा मत्स्याक्कृतिपत्रलेखा तयाकितं चिह्नितनुरःस्थलं यस्य सः । एतेनायमपि कामा- सक्त इत्याणि । अब्धौ क्षीरसमुद्रे शेते स्वपिति । एतादृशेषु सिद्धेषु शान्त्यभावे इतरेषु प्राणिषु शान्तेः का नाम कथा । न कापीत्यर्थः ॥ २८ ॥ कामदूतस्य नाम जाल्म इति । असमीक्ष्यकारित्वात् । 'जाल्मोऽसमीक्ष्यकारी स्यात्' इत्यमरः । आदेश- माज्ञां प्रतिपादय कथय । दुराशयो दुर्हदयः । [पुरुष:- देव आशापयति । ] । १ 'पत्रं वाचयित्वा सक्रोधं' इति पाठः । २ ' अतिमुग्धाः — विभ्यति कुतोऽरया: ' इति पाठः ।