पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् महामोह: – (स्वगतं विचिन्त्य ) शान्तेः कोऽभ्युपायः । अथ- वा अलमुपायान्तरेण । क्रोधलोभावेव तावदत्र पर्याप्तौ । (प्रकाशम् ) कः कोऽत्र भोः । ( प्रविश्य दौवारिकः । ) दौवारिक:– आज्ञापयतु देवः । महामोहः - तावदाहूयतां क्रोधो लोभश्च । पुरुषः – जं आणवेदि देवो । - ( इति निष्क्रान्तः । ) (ततः प्रविशति क्रोधो लोभश्च ।) - क्रोधः – श्रुतं मया यथा शान्तिश्रद्धाविष्णुभक्तयो महाराजेन प्रतिपक्षमाचरन्तीति । अहो, मयि जीवति कथमासामात्मनि निरपे- क्षितं चेष्टितम् । तथाहि - अन्धीकरोमि भुवनं बधिरीकरोमि धीरं सचेतनमचेतनतां नयामि । कृत्यं न पश्यति न येन हितं शृणोति धीमानधीतमपि न प्रतिसंदधाति ॥ २९ ॥

  • यदाज्ञापयति देवः ।

त्यन्तं स्पष्टम् । तावदाहूयतामित्यादि वाक्यं श्रुत्वा दौवारिको यदादिशती ति गतः । प्रविशतीति क्रोधो लोभश्च । अत्र सहसैवार्थसंपत्त्या प्रवेशः । आज्ञापयतु देवः ॥– अन्धीकरोमीत्यादि । अन्धीति विप्रत्ययान्तम् । एवं बधिरीति । येन मया कृत्यं न पश्यति । हितं न शृणोति । धीमान् अधीतमपि न कोऽभ्युपाय इति । शान्तिनिराकरणायेति शेषः । महाराजेन प्रतिपक्षभावं शत्रुत्व- मात्मनिरपेक्षितं खात्मापेक्षारहितं स्वजीवनरहितम् । – अन्धीकरोमीति । भुवनं भूमण्डलमन्धीकरोम्यनन्धमन्धं संपादयामि तथाकरोमीत्यन्धीकरोमि । दृष्टिरहितं करोमीत्यर्थः । बधिरीकरोमि श्रोत्रहीनं करोमि। धीरं धैर्ययुक्तमधीरतांनयामीति शेषः । सचेतनं सहृदयमचेतनतां हृदयशून्यतां नयामि प्रापयामि । अन्धीकरणादेः प्रयो- जनगाह । येन कृत्यं कर्तव्यं न पश्यति, येन हितं न शृणोति । धीमान् बुद्धिमा- १ 'प्रविशत: ' इति पाठः । २ 'आत्मनिरपेक्षं' इति पाठः ।