पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [द्वितीयोऽङ्कः इत्यादि तत्प्रवृत्तिच कर्तव्या क्षेत्रवासिना ॥' इति । तथा तत्रैव — 'प्रतिग्रहादुपा- वृत्तः संतुष्टो येनकेनचित् । अहंकारविमुक्तच स तीर्थफलमथुते ॥ अदाम्भिको निरालम्वो लध्वाहारो जितेन्द्रियः । विमुक्तः सर्वसङ्गैर्यः स तीर्थफलमञ्जते ॥ अकोपनोऽमलमतिः सत्यवादी दृढव्रतः । आत्मोपमश्च भूतेषु स तीर्थफलम- श्नुते ॥ तीर्थान्यनुसरन्धीरः श्रद्दधानः समाहितः । कृतपापो विशुद्ध्येत किं पुनः शुद्धकर्मसु ॥ तिर्यग्योनिं न वै गच्छेत्कुदेशे न च जायते । न दुःखी स्यात्स्व - र्गभाक्च मोक्षोपायं च विन्दति || अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसं- शयः । हेतुनष्टश्च पञ्चैते न तीर्थफलभागिनः' ॥ असंयतेन्द्रियाणां पापकर्मणा- मन्यत्र स्थितानां काश्यां पापक्षयः । 'अन्यत्र यत्कृतं पापं तत्काश्यां च विन- श्यति । वाराणस्यां कृतं पापमन्तर्गेहे विनश्यति ॥ अन्तर्गेहकृतं पापं पैशाचन- रकावहम् । पिशाचनरकप्राप्तिर्गच्छत्येव वहिर्यदि ॥ न कल्पकोटिभिः काश्यां कृतं कर्म प्रणश्यति । किंतु रुद्रपिशाचत्वं जायते त्वयुतत्रयम् ॥ वाराणस्यां स्थितो यो वै कामरोषरतः सदा । योनिं प्राप्यापि पैशाची वर्षाणामयुतत्रयम् || पुनस्तत्रैव निवसञ्ज्ञानं प्राप्नोत्यनुत्तमम् । तेन ज्ञानेन संपन्नो मोक्षं प्राप्नोत्य- नुत्तमम् ॥ दुष्कृतानि विधायेह पुनः पञ्चलमागताः । तेषां गतिं प्रवक्ष्यामि शृणुत द्विजसत्तमाः ॥ विवस्त्राः क्षुत्पिपासाभिर्लग्नपृष्ठोदरत्वचः । अन्यै रुद्रपि शाचैश्च सद्द तान्योजयेत्पतिः ॥' अत्र कालराजेयनुषज्यते । 'ततो रुद्रपिशाचास्ते भैरवानुचरास्तदा । सदन्नकाममत्यर्थ (?) क्षत्रिये मूत्रसंभवम् । आहारं रुधिरो न्मिश्रं नैव भक्तं कदाचन । एवं त्वयुतसंख्यातं कालं ते भ्रान्तदुःखिताः । स्मशानस्तम्भमहिता नीयन्ते कण्ठपाशिताः ॥ पिपासिता अपि न ते अम्बु- स्पर्शमवाप्नुयुः । अथ संक्षीणपापास्ते कालभैरवदर्शनात् ॥ इहैव देहिनो भूत्वा मुच्यन्ते ते ममाज्ञया । तस्मान्न कामयेतात्र वाङ्मनः कर्मणाप्यघम् || शुचौ पथि समास्थेयं महालाभमभीप्सुमिः ॥' इति । अनेन वाराणस्यां पापकारिणां मरणानन्तरं रुद्रपिशाचयातनाप्राप्तिस्तदनन्तरं मुक्तिरित्युक्तम् । सा च मुक्तिः ‘ज्ञानादेव तु कैवल्यम्' इत्यादिश्रुतिभ्यो भगवांस्तारकमुपदिशति । भगवच्छब्दार्थपर्यालोचनया परमगुरूपदेशवशादेव मुक्तिरिति विज्ञायते । क्षे- त्रमहिन्नैव मरणान्मुक्तिरित्युक्तौ तारकोपदेशो व्यर्थः स्यात् । न च 'नावि- मुक्तो मृतः कश्चिन्नरकं याति किल्विषी | समानुग्रहमासाथ गच्छत्येव परां ग- तिम् ॥' इति । नात्र मरणादेव मुक्तिः प्रदीयत इति वाच्यम् । नमानुप्रहमा- साद्येयनेन ज्ञानप्रदानरूपानुग्रहस्यैव परमपदगमनस्य हेतुवावगमात् । अतश्च ब्राह्मणताङनादि । मनश्च सुसंयतमेव कामानासक्तमेव । विद्या तत्तीर्थमाहात्म्य- ज्ञानन् । तपश्चान्द्रायणादि । कीतिर्दानादिना । एवं यः करोति स तीर्थफलमश्नुते