पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् – दम्भः – सत्यमेतत्तथापि नैतत्कामक्रोधाभिभूतानां संभाव्यते । तथा ह्युदाहरन्ति तैर्थिकाः— यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । विद्या तपश्चं तीर्थं च स तीर्थफलमश्नुते ॥ १४ ॥ हरः ॥ तारकं ब्रह्म आचष्टे तेन ब्रह्म भवन्ति हि । एवं लोका वदन्त्येवं तमाहु- ब्रह्मवादिनः ॥ भगवानन्तकालेऽत्र तारकस्योपदेशतः । अविमुक्तस्थिताञ्जन्तून्मो- चयेन्नात्र संशयः ॥' इति । एतदुक्तं भवति । काश्यां मरणं जन्तुमात्रसाधारण्येन मुक्तिहेतुरिति ॥ १३ ॥ उक्तेऽर्थेऽर्धमङ्गीकरोति — सत्यमेतदिति । भगवान् सर्वसाधारण्येनान्तकाले तारकमुपदिशतीत्येतच्छदार्थः । तारकमुपदिशतीत्यङ्गी- कारांशः । साधारण्येऽप्यङ्गीकारांशं प्रतिपादयितुमुपक्रमते । तथाहीत्यादिना । कामक्रोधाद्युपहतचित्तानामेतद्भगवान्सर्वसाधारण्येनोपदेशं करोतीत्येतन्न संभा- व्यते । कुत इति तत्राह—तत्राप्युदाहरन्तीति । मुनय इति शेषः ॥ —–यस्येति । यस्य जनस्य पादौ चरणौ सुसंयतौ निषिद्धसंचारपराङ्मुखौ । सुसंयतमित्यादि पा- दहस्तयोर्विभक्तिलिङ्गविपरिणामेनान्वयः कर्तव्यः । पादौ सुसंयतौ हस्तौ सुसंयतौ चेति । दम्भरहितः पुरुषो विद्या ज्ञानं, तपः कृच्छ्रचान्द्रायणादिकम्, तीर्थ यो- निरुपस्थः । सुसंयत इत्यन्वयः स तीर्थफलं काशीतीर्थफलं यस्मिंस्तीर्थे यत्फलमुपदिष्टं तत्फलमञ्जते प्राप्नोति । अस्य सामान्यशास्त्रस्य विशेषशास्त्रेणैका- र्थ्यात्काश्यां संयतेन्द्रियाणामेव तीर्थफलप्राप्तिर्नान्येषाम् । तथा चोक्तं का- शीखण्ड उत्तरभागे षण्णवतितमेऽध्याये कृच्छ्रचान्द्रायणादितपांस्युक्त्वा ‘अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति । विद्यातपोभ्यां भूतात्मा बुद्धि- ज्ञानेन शुध्यति ॥ तच्च ज्ञानं भवेत्पुंसां सम्यक्काशीनिषेवणात् । काशीनिषेवणा- त्तस्माद्विश्वेशे करुणोदयः । ततो महोदयावाप्तिः कर्मनिर्मूलनक्षमा ॥ ततः काइयां प्रयत्नेन स्नानं दानं तपो जपः । व्रतं पुराणश्रवणं स्मृत्युक्ताध्वनि- षेवणम् ॥ प्रतिक्षणं प्रतिदिनं विश्वेशपदचिन्तनम् । साधुभिः सह संवासो जल्पः शिवशिवेति च ॥ आस्तिक्यबुद्धिर्विनयो मानामानसमानधीः । अकामल- मनौद्धुत्यमरागित्वमहिंसनम् ॥ अप्रतिग्रहवृत्तिश्च मतिश्चानुग्रहात्मिका । अद- म्भित्वममात्सर्यमप्रार्थितधनागमः ॥ अलोभिवमनालस्यमपारुष्यमदीनता । सत्यमेतदिति । यद्यपि शंकरः सच्चिदानन्दवाक्यार्थरूपं ब्रह्म वाराणस्यां प्रकाशय- नीति सत्यं तथापीत्यग्रेतनेन योजनीयम् । तैथिंकाः वैदिकाः । किमुदाहरन्ति त- दाह — यस्येति । यस्य हस्तौ पादौ सुसंयतौ पारमेश्वरमेव कार्य कुर्वाणौ नतु १ 'तपश्च कीर्तिश्ध' इति पाठः ।