पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् - कामः – प्रिये, न भेतव्यं न भेतव्यम् । हताशानामाशामा- त्रमेवैतत् । अस्ति किलैषा किंवदन्ती । अत्रास्माकं कुले कालरा- त्रिकल्पा विद्यानाम राक्षसी समुत्पत्स्यत इति । Men S रतिः– ( समयम् ) * हद्धी हद्धी । कथं अह्माणं कुले रक्ख- सीति वेवदि मे हिअअम् । कामः – प्रिये, न भेतव्यं न भेतव्यम् । किंवदन्तीमात्रमे- - वैतत् । रतिः – 'अध ताए रक्खसीए किं कादव्वम् । ३१ ●

  • हा धिक् हा धिक् । कथमस्माकं कुले राक्षसीति वेपते

मे हृदयम् । अथ तया राक्षस्या किं कर्तव्यम् । प्रियामाश्वासयति – काम इत्यादि । हताशानां हता नष्टा आशा आशास् येषाम् । दुष्टानामित्यर्थः । आशैवाशामात्रम् । एतत्पदार्थमाह-अस्ति किले- त्यादि । किलेल्यपरमार्थे । एषा वक्ष्यमाणा किंवदन्ती वार्तास्तीत्यन्वयः । कालरात्रिकल्पा कालरात्रितुल्या । कालरात्रिर्डाकिनी । विद्यानाम विद्याशब्दव्यप- देश्या । उत्पत्स्यत इति निगूढं बीजमस्तीत्यन्वयः । —रतिरिति । प्राकृतभाषायां हद्धीति विषादे पश्चात्तापे वा निपातः । तथा च सूत्रम् – 'हद्धी विकल्प-विषाद- सत्य-निश्चय-पश्चात्तापेषु च' इति । तस्योत्तरमाह —–अस्तीत्यादि । कि- लेति वार्तामात्रे । प्राजापत्या सरस्वत्यस्ति किल । सर्वानर्थबीजमनेन प्रकाशि- तम् । प्राजापल्या प्रजापतिप्रोक्ता सरस्वती मुण्डकोपनिषत् । तथा च श्रूयते- 'शौनको ह महाशालोऽङ्गिरसं प्रजापतिं विधिवदुपसन्नः पप्रच्छ कस्मिन्नु भ गवो विज्ञाते सर्वमिदं विज्ञातं भवतीति । तस्मै स होवाच द्वे विद्ये वेदितव्ये इति ह स्म ब्रह्मविदो वदन्ति परा चैवापरा च । तत्रापरा ऋग्वेदो यजुर्वेदः सा- मवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमितिहासपुराण- धर्मशास्त्राणीति । अथ परा यया तदक्षरमवगम्यते । यत्तदद्रेश्यमग्राह्यमगोत्र- मवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मम् । तदव्ययं तद्भूत- नतु निश्चयः । विद्या आत्मतत्त्वसाक्षात्कार: । क्रूरकर्मकरणाद्रांक्षसीत्युक्तिः । [ रतिः

- हा धिक् हा धिक् । कथमस्माकं कुले राक्षसीति वेपते मे हृदयम् ] | किंव-

दन्तीमात्रमेतदिति पुनराश्वासनम् । [रतिः - अथ तया राक्षस्या किं कर्तव्यम् ] ।