पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ प्रबोधचन्द्रोदयम् [प्रथमोऽङ्कः - कामः – प्रिये, अस्ति किलैषा प्राजापत्या सरखती । पुंसः सङ्गसमुज्झितस्य गृहिणी मायेति तेनाप्यसा- वस्पृष्टापि मनः प्रसूय तनयं लोकानसूत क्रमात् । तस्मादेव जनिष्यते पुनरसौ विद्येति कन्या यया तातस्ते च सहोदराश्च जननी सर्वे च भक्ष्यं कुलम् १९ रतिः– (सन्त्रासोत्कम्पम् ।) * अजउत्त, परित्ताहि परित्ताहि । (इति भर्तारमालिङ्गति ।)

  • आर्यपुत्र, परित्राहि परित्राहि ।

योनिं परिपश्यन्ति धीराः' इति । एतदुक्तं भवति । विद्या द्विविधा । परा चा- परा चेति । अपरोपनिषद्रूपा । परा त्वन्तःकरणवृत्तिरूपा । तदयमर्थः । तस्मा त्कि कर्तव्यमित्यत्र प्रश्नद्वयमुपलभ्यते, कीदृशी विद्या कुत उत्पन्नेति । एतदुत्त- ररूपा प्राजापत्या श्रुतिः । एतदुपनिषदर्थानुवादकं श्लोकं पठति – पुंसः सङ्गसमुज्झितस्येत्यादि । अस्यामुपनिषदि ‘कस्मिन्नु भगवो विज्ञाते सर्व- मिदं विज्ञातं भवति' इति सर्वविषयज्ञानात्मकमूलविद्याप्रतीतेः, 'यया तद- क्षरमवगम्यते’ इति उत्तररूपवाक्ये औपनिषदन्तःकरणपरिणामरूपवृत्तिप्रतीतेः, अद्वेष्यमित्यादिना सर्वभक्षकत्वप्रतीतेश्च मूलाविद्यातो मनोजन्म, मनसो वृत्तिरूपं विद्याजन्म, विद्यातो जगद्भक्षणं चेत्युपनिषच्छोकयोरैकार्थ्यमवगन्त- व्यम् ॥ १९ ॥–रतिरित्यादि । सत्रासोत्कम्पं त्रासेन व्यभिचारभावेनोत्पन्ना या विक्रिया स एवोत्कम्पस्तेन सह वर्तते यथा तथेति सत्रासोत्कम्पम् । यथोक्तं रसार्णवसुधाकरे—'त्रासस्तु चित्तचापल्यं विद्युत्कव्यादगर्जितैः । तथाभूत- प्राजापत्या हिरण्यगर्भसंबन्धिनी सरस्वती वाणी ॥– पुंस इति । पुंसः परमेश्वरस्य गृहिणी स्त्री मनोरूपं तनयं पुत्रं प्रसूयोत्पाद्य लोकान्भूर्भुवरादीन्क्रमादनुक्रमेण श्रुती- रिताच्छ्रुत्युक्तमार्गेणास्त जनयामास । कीदृशस्य पुंसः । सङ्गेन संबन्धेन समुज्झितस्य रहितस्य । 'असङ्गो ह्ययं पुरुष: ' इति श्रुतेः । कीदृशी माया | तेन पुंसाऽस्पृष्टाप्यसंवद्धापि । असंबद्धापि जनयतीत्ययुक्तमिति न शङ्कनीयम् । चुम्बकपापाणेनासंबद्धा लोहशलाका चुम्बकं यान्तमनुयातीति दृष्टं लोके । तद्वदियमसंवद्धापीक्षणमात्रेण जनयतीत्यर्थः । अघटितघटनापटीयस्यामिदं सर्वमपि संभाव्यत इत्याह मायेत्यनेन विशेषणेन । पुन:शब्द आनन्तर्यार्थः । पुनरनन्तरमसौ विद्येति प्रसिद्धकन्या तस्मादेव मनस एव सकाशाजनिष्यत उत्पत्स्यते । असौ का । यया तात: पिता, ते सहोदरा वन्धवश्च, १ 'किल तत्र प्राजापत्या' इति पाठः । -