पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् २४ अपिच रम्यं हर्म्यतलं नवाः सुनयना गुजद्विरेफा लताः प्रोन्मीलन्नवमल्लिकाः सुरभयो वाताः सचन्द्राः क्षपाः । यद्येतानि जयन्ति हन्त परितः शस्त्राण्यमोघानि मे [प्रथमोऽङ्कः , तद्भोः कीदृगसौ विवेकविभवः कीदृक्प्रबोधोदयः ॥ १२ ॥ रतिः— * अज्जउत्त, गुरुओ क्खु महाराअमहामोहस्स पडि- वक्खो विवेओ त्ति तक्केमि । कामः—–प्रिये, कुतस्तवेदं स्त्रीस्वभावसुलभं विवेकाद्भयमु- त्पन्नम् । पश्य ।

  • आर्यपुत्र, गुरुः खलु महाराजमहामोहस्य प्रतिपक्षो विवेक इति

तर्कयामि । - स्येति । दृष्टिविशिखाः दृष्टयो विशिखा इव निशिताः । मोहकारका इति यावत् । यद्वा दृष्टय एव विशिखा इति रूपकम् । अनयोरुपमारूपकयोः साधकबाधकप्र माणाप्रतीतेः संदेहे संकरः ॥११॥ – आत्मतुष्ट्यवधिकत्वादहंकारकथनस्य पुनः प्रागल्भ्यं प्रकटयति–अपिचेत्यादिना । रम्यमिति । नवा आरूढयौवनाः 1 द्विरेफशब्दो लाक्षणिकः भ्रमरशब्दलक्षकत्वात् । भ्रमरशब्दो रेफद्वयवान् | तेन लक्षितलक्षणया भ्रमरार्थबोधको द्विरेफशब्दः । तथा वामनसूत्रम् ‘लक्षणशब्दश्च' इति । अत्राह बृत्तिकारः 'द्विरेफरोदनशब्दौ भ्रमारचक्रवाकार्यों' इति । यद्ये- तानि जयन्तीत्य संशये संशयोक्तिः 'यदि वेदाः प्रमाणम्' इतिवत् । जयन्त्ये- वेत्यर्थः । कीदृगिति किंशब्द आक्षेपे । विवेकविभवः प्रबोधोदयश्च निरूपयितुं दुः- शक्य इत्यर्थः ॥१२॥ — प्रिये इत्यादि । कुत इत्याक्षेपे । स्त्रीस्वभावो भीरुत्वं तेन तासां कटाक्षप्रक्षेपैरन्धीभूतगिव सचेतनं भवतीति भावः ॥ ११ ॥- -रम्यं हर्म्य- तलमिति । एतानि मे ममामोवानि सफलानि शस्त्राणि परितो जयन्ति यदि सर्वो- त्कृष्टानि यदि वर्तन्ते । भोः शैलूषाधम, तत्तदा असौ वर्णितो वो विवेकस्तस्य विभवः सामर्थ्य कीदृक्, अथ प्रबोधोदयश्च कीदृक् । द्वयमपि न संभवतीति भावः । एतानि कानि तान्याह—रम्यमिति । हर्म्यस्य धनिनां गृहस्य तलं भूमि:, नवा नूतनाः, सुनयना: सुलोचनाः, गुञ्जन्तः शब्दं कुर्वन्तो द्विरेफा भ्रमरा यासु तादृश्यो लता:, प्रोन्मीलन्त्यो विकसनशीला नवा महिका मालयः, सुरभयो बाता: सुगन्धा वायवः, सचन्द्रा: क्षपा निशा: एतानि मम शस्त्राणि ॥ १२ ॥ –रतिरिति । बढ़तीति शेषः । [ आर्यपुत्र, गुरुः खलु महाराजमहामोहस्य प्रतिपक्षो विवेक इति तर्कयामि ] |