पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् मद्वचनाच्चायमुपजातक्रोध ईव लक्ष्यते । तदपसरणमेवास्माकमितः श्रेयः । ( इति निष्क्रान्तौ ।) प्रस्तावना | १] २३ (ततः प्रविशति यथानिर्दिष्टः कामो रतिश्च ।) कामः – (सक्रोधम् । आः पॉपेति पुनः पुनः पठित्वा) ननु रे भरताधम, प्रभवति मनसि विवेको विदुषामपि शास्त्रसंभवस्तावत् । निपतन्ति दृष्टिविशिखा यावन्नेन्दीवराक्षीणाम् ॥ ११ ॥ इति यावत् ॥ १० ॥ - मद्रचनादित्यादि । वस्तुतो विवेकशून्यः मवच- नमपि श्रुतवानिति चकारार्थः । अयमित्यत्यन्तसंनिहितोऽभूदिति शीघ्रमेव प लायनं कर्तव्यमित्ययंशब्दं प्रयुञ्जानस्य भावः । उपसंजातक्रोध इव लक्ष्यते । अ स्मास्विति शेषः। मद्विषयकक्रोध इव लक्ष्यत इतीवशब्दार्थः । तदपसरणमि- त्यादि । तत्तस्माद्धेतोरस्माकमितः प्रदेशादपसरणं पलायनमेव श्रेयः प्रशस्यत- रम् । 'द्विवचनविभज्योपपदे तरबीयसुनौं' इतीयमुन्प्रत्ययः 'प्रशस्यस्य श्रः' इति श्रादेशः । सकारान्तं नपुंसकलिङ्गं श्रेयः । नान्यः प्रकार: संभाव्यत इत्येवकारार्थः । अस्माकमिति बहुवचनेन सर्वेषामस्मदीयानामयमर्थो योग्यत इत्येवम भिसंधा- येत्यर्थः । निष्क्रान्तौ निर्गतौ । नटीसूत्रधारावित्यर्थः । प्रस्तावना साङ्गा निरूपिते- त्यर्थः । ‘अङ्गेनान्यतमेनैषां पात्रमाक्षिप्य सूत्रधृक् । अनन्तरं तु निष्कामेदेषां प्रस्तावना मता ॥ एषामामुखाङ्गानां कथोद्धातप्रवर्तक प्रयोगातिशयानां मध्य इत्यर्थः । कथामुपक्षिपति-तत इति । ततः सूत्रधारविनिर्गमनानन्तरं कामः प्रविशति । यद्यपि महामोहामात्यानां मध्ये यस्य कस्यापि विष्कम्भपात्रता संभव- त्येव तथापि कामस्य सर्वामात्यत्वं मुख्यं सृष्टिप्रवर्तकत्वरूपं श्रुतिसिद्धम् । तथाच श्रुतिः – 'कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत्' इति । मनसो रेतः मनसः पुत्र इत्यर्थः । अत्र विष्कम्भेण कथोपक्षेप उक्तः ॥ - प्रभवति मन- सीत्यादि । शास्त्रसंभवो विदुषामपि मनसि विवेकस्तावत्प्रभवति । यावदिन्दी- वराक्षीणां दृष्टिविशिखा न निपतन्तीत्यन्वयः । शास्त्रादुपनिषदः संभवो यस्येति पञ्चमीव्यधिकरणबहुव्रीहिः । यद्वा शास्त्रमुपनिषत्संभव उत्पत्तिस्थानं यस्य विवेक- प्रस्तावना कथासंगतिः । तल्लक्षणम् – 'अर्थरय प्रतिपाद्यस्य कथा प्रस्तावना मता' इति । यथानिर्दिष्ट इति । पूर्वश्लोक इति शेषः । आः पाप शैलूषाधमेति । पूर्वफ- क्किकामिति शेषः । भरताधम नटाधमेत्यर्थः ॥–प्रभवतीति । विदुषामपि पण्डिता- नामपि मनसि शास्त्रसंभवो विवेकः तावत्पर्यन्तं प्रभवति समुत्पद्यते । तावत्कथम् । यावत्पर्यन्तमिन्दीवराक्षीणां कमललोचनानां दृष्टिविशिखाः कटाक्षरूपा वाणा न पतन्ति १ 'क्रोधो लक्ष्यते' इति पाठः । २ पापेति पठित्वा' इति पाठः ।