पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् श्रीकीर्तिवर्मनृपतेर्बोधस्येवोदयः कृतः ॥ ९ ॥ ( नेपथ्ये ) आः पाप शैलूपाधम, कथमस्मासु जींवत्सु खामिनो महामो- हस्य विवेकसकाशात्पराजयमुदाहरसि । सूत्रधार : – ( ससंभ्रमं विलोक्य) आर्ये, इतस्तावत् । उत्तुङ्गपीवर कुचद्वयपीडिताङ्ग- मालिङ्गित: पुलकितेन भुजेन रत्या । श्रीमाञ्जगन्ति मदयन्नयनाभिरामः २२ [प्रथमोऽङ्कः कामोऽयमेति मदचूर्णितनेत्रपद्मः ॥ १० ॥ — प्रतीत्यर्थः । अत एवापातप्रतिपत्त्यारोपोत्पत्तिः प्रयोजनम् । अत्र कथोद्धाताख्य- मामुखाङ्गं निरूपितम् । तथाचोक्तम् – ‘त्रीण्यङ्गान्यामुखस्यास्य कथोद्धातः प्रत्र- त्तकः । प्रयोगातिशय श्चेति पात्रक्षेपस्य हेतवः ॥ स्वेतिवृत्तसमं वाक्यमर्थ वा यत्र सूत्रिणः | गृहीत्वा प्रविशेत्पात्रं कथोद्धातो द्विधैव सः ॥' अत्रार्थ गृहीला प्रवेशः। ‘विवेकेन विनिर्जित्य कर्ण मोहमिवोर्जितम् । श्रीकीर्तिवर्मनृपतेर्वोधस्ये- वोदयः कृतः ॥ इति सूत्रधारेणोक्ते सति ॥९॥ - उत्तुङ्गेत्यादि । उत्तुग़ावुन्नतौ पीवरौ पीनौ पयोधरौ स्तनौ ताभ्यां पीडितमङ्गं यस्मिन्कर्मणि तत् । मदनस्येति शेषः । क्रियाविशेषणमेतत् । गाढमालिङ्गित इत्यर्थः । पुलकितेन भुजेनेति सा- विकभावो निर्दिष्टः । रतिरत्र कर्त्री । श्रीमान्माहात्म्यवान् जगन्ति लोकान्म- दयन् । पञ्चभिर्वाणैरिति शेषः । नयनाभिरामो नेत्रोत्सवदः । अतिसुन्दर इत्यर्थः। कामो मन्मथः अयं परिदृश्यमान एति समीपमागच्छति । मदेन मद्यपानजनितेन विकारेण घूर्णिते कलुषीकृते विकृतिं गते नेत्रपद्मे यस्य सः । युक्तायुक्त विवेकशून्य कीर्तिवर्मनृपतेरुदय उत्कर्षः कृतः । तत्र दृष्टान्तः । यथा विवेकेनेवात्मयाथात्म्यज्ञानेनेव संसारमूलकारणमिव निर्जित्य बोधस्येवात्मसाक्षात्कारस्येवोदयः कृतः ॥ ९ ॥ मोहं जित्वेति, दोधस्येवोदयः इति च श्रुत्वा मोहपक्षीयो नटाध्यक्षमधिक्षि पति । नेपथ्ये । आः पापेति । शैलुषाधम नटाधम ॥—उत्तुङ्गेति । अयं कामति समायाति । कीदृशः कामः । पुलकितेन रोमाञ्चितेन गुजेन रत्योत्तुङ्गम- त्युच्चं पीवरं मांसलं यत्कुचद्वयं तेन पीडितमङ्गं यथा भवति तथा आलिङ्गितः । पुन: कीदृशः कामः । श्रीमान्शोभावान् जगन्ति सचेतनानि मदयन्मत्तानि कुर्वन् । तथा नयनयोरभिरामः । तथा मदेन घूर्णिते नेत्रकमले यस्य सः भ्रान्तनेत्रः ॥ १० ॥ १ 'अस्मत्स्वामिनो' इति पाठः ।