पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् २५ अपि यदि विशिखाः शरासनं वा कुसुममयं ससुरासुरं तथापि । मम जगदखिलं वरोरु नाज्ञामिदमतिलङ्घय धृतिं मुहूर्तमेति ॥ १३ ॥ तथाहि - अहत्यायै जार: सुरपतिरभूदात्मतनयां प्रजानाथोऽयासीदभजत गुरोरिन्दुरबलाम् । इति प्रायः को वा न पदमपथेऽकार्यत मया श्रमो मद्वाणानां क इव भुवनोन्माथविधिषु ॥ १४ ॥ सुलभं भयहेतुमाशय परिहरति । पश्यालोचय | अवेहीति यावत् ॥ -अपि यदीति । अपि यदि यद्यपि विशिखा वाणाः, शरासनं कोदण्डः कुसुममयं कुसुमैर्निर्मितम् । विकारार्थे मयट् । विशिखा अपि कुसुममयाः । लिङ्गवचनविप- रिणामः । वाशब्दः समुच्चये मधुकरमौर्व्याद्यनुक्तं समुच्चिनोति । तथापि ससुरा- सुरमखिलमिदं जगत् हे वरोरु, ममाज्ञामतिलङ्घ्य धृतिं मुहूर्त क्षणमात्रमपि नैति न प्राप्नोति ॥१३ ॥ तदेवाह — तथाहि । अहल्यायै जार इति । अहल्याया जार इत्यर्थः । अहल्यायै जार इति पाठः श्रुयनुकरणत्वात्संगतः। संभोगं कृतवानि- व्यर्थः । गुरोर्बृहस्पतेरबलाम् । पत्नीमित्यर्थः । अपथेऽमार्गे । 'पथो विभाषा' इति समासान्तः। पदं स्थानं पादप्रक्षेपं वा नाकार्यत । 'होरन्यतरस्याम्' इत्याणि - कर्तुः कर्मत्वम् । सर्वोऽपि कारित एवेत्यर्थः । तदेव स्फोरयति । श्रमो मद्वाणाना- मिति । क इव । इवेति वाक्यालंकारे । उन्माथविधिषु उन्माथो मथनं मर्दनम् ॥ १४ ॥ त्वं स्त्रीस्वभावसुलभं भयं मा कुरु । अहमपि समर्थोऽस्मीत्याह–अपि यदि वि शिखा इति । अपि यदि यद्यपि विशिखाः शराः, शरासनं धनुः एतव्यं कुसुममयं वर्तते, तथापि ससुरासुरं सुरासुरैर्देवदैत्यैः सह वर्तते तत्ससुरासुरमखिलं सर्व- मिदं जगत् भो बरोरु गमाज्ञामतिलवयोलङ्घय धृर्ति धैर्य मुहूर्त क्षणमपि नैति न प्राप्नोतीति ॥ १३ ॥— उक्तमर्थं प्रकटयति — तथाहि । अहल्याया जार इति । सुरपतिरिन्द्रोऽहल्याया गौतमपल्या जार उपपतिरभूत् । प्रजानां नाथो ब्रह्मा आत्म- तनयां शतरूपामयासीत्स्वपुत्रीं प्रति गतः । मिथुनीभावं प्राप्त इत्यर्थः । इन्दुः शशाङ्को गुरोर्बृहस्पतेरबलां स्त्रियमभजत सिषेवे । इत्येवंप्रकारेण प्रायोऽतिशयेन मया को वा पुमान्पुरुषार्थी अपथेऽमार्गे पदं स्थानं नाकार्यत । किंतु सर्वोऽपि कारित एवेत्यर्थः । किमधिकं वाच्यम् । भुवनानामुन्माथ उन्मादस्तद्विधिषु तत्कर्तव्यतासु १ 'अहल्याया जार: इति पाठः ।